SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ उपमितौ व. ४-प्र. ॥ ३८४ ॥ Jain Education In सर्वभूतदया शौचं, जलशौचं तु पञ्चमम् ॥ ६२५ ।। एवं च स्थिते — कार्य जलैर्न नोऽकार्य, किं तु तत्कार्यमीदृशम् । विधीयमानं यच्छौचं, भूतानां नोपघातकम् || ६२६ ।। तच्च संजायते नूनं, बहिर्मलविशुद्धये । नान्तरङ्गमलक्षालि, यत उक्तं मनीषिभिः ।। ६२७ ॥ चित्तमन्तर्गतं दुष्टं, न स्नानाद्यैर्विशुध्यति । शतशोऽपि हि तद्धौतं, सुराभाण्डमिवाशुचि || ६२८|| किंच - शरीरमलमप्येतज्जलशौचं कृतं जनैः । तेषां विशोधयत्येकं, क्षणमात्रं न सर्वदा ॥ ६२९ ॥ यतः — रोमकूपादिभिर्जन्तोः, शरीरं शतजर्जरम् । धौतं धौतं स्रवत्येव, नैतच्छुचि कदाचन ॥ ६३० ॥ तथाहि — कचित्प्रवर्तमानानां देवताऽतिथिपूजने । केषाञ्चित्कारणं भक्तेर्जलशौचमनिन्दितम् ॥ ६३१ ॥ केवलं नाग्रहः कार्यो, विदुषा तत्त्ववेदिना । तत्रैव जलजे शौचे, स हि मूर्खत्वकारणम् ॥ ६३२ ॥ ततश्च — एवं विशुद्धबुद्धीनां, जलशौचादि कुर्वताम् । संज्ञानपरिपूतानां तेषां तात ! महात्मनाम् ॥ ६३३ ॥ याप्येषा कथिता पूर्वमिहामुत्र च दुःखदा । जुगुप्सा साऽपि | नष्टत्वान्नैव बाधाविधायिका || ६३४॥ युग्मम् । यावप्येतौ जगच्छत्रू, पूर्व व्यावर्णितौ मया । ज्ञानसंवरणो राजा, दर्शनावरणस्तथा ॥ ६३५|| तौ सर्वज्ञागमाभ्यासवासनावासितात्मनाम् । अप्रमादपराणां च नैव तेषां कदर्थकौ ॥ ६३६ ॥ युग्मम् । योऽप्यन्तरायनामायं, राजा पर्यन्तसंस्थितः । दानादिविघ्नहेतुस्ते, मया पूर्व निवेदितः || ६३७ || निराशानां निरीहानां, दायिनां वीर्यशालिनाम् । तेषां भद्र ! मनुष्याणां, सोऽपि किं किं करिष्यति ? || ६३८ ॥ युग्मम् । अन्येऽपि ये भटा दुष्टा, या नार्यो ये च डिम्भकाः । केचिदत्र बले तेऽपि न तेषां भद्र! बाधकाः ॥ ६३९ ।। एते तु भूपाश्चत्वारः, सप्तानां मध्यवर्तिनः । तेषां भोः सुन्दराण्येव, सर्वकार्याणि कुर्वते ॥ ६४० ॥ ततञ्च — इदं निर्जित्य वीर्येण, तेऽन्तरङ्गबलं जनाः । तिष्ठन्ति सततानन्दा, निर्बाधाः शान्तचेतसः ॥ ६४१ ॥ स्वसाधनयुतो यस्मान्महामोहनराधिपः । अयमेव बहिर्लोके, परत्रेह च दुःखदः ॥ ६४२ ॥ एवं च स्थिते – सद्भावभावनास्त्रेण, यैः स एष वशीकृतः । कुतो दुः For Private & Personal Use Only मोहादिबाधकाः ॥ ३८४ ॥ www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy