SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. मोहादिबाधका ॥३८२॥ |भावनाशस्त्रैः, पिता पुत्रा अमी जिताः ॥ ५८७॥ युग्मम् । तथा-सर्वज्ञागमतत्त्वेषु ये सन्ति सुविनिश्चिताः । ये पुनः सद्विचारेण, क्षालयन्यात्मकल्मषम् ॥ ५८८ ॥ नयन्ति स्थिरतां चित्तं, सर्वज्ञागमचिन्तया । पश्यन्त्युन्मार्गयायित्वं, मूढानां च कुतीर्थिनाम् ॥ ५८९ ॥ तेषामेष जनानां भो, निर्मलीभूतसद्धियाम् । न बाधकः प्रकृत्यैव, महामोहमहत्तमः ॥ ५९० ॥ त्रिभिर्विशेषकम् । याऽप्येषा गृहिणी पूर्व, वर्णिता वीर्यशालिनी । कुदृष्टिः सापि तद्वीर्यादूरतः प्रपलायते ॥ ५९१ ॥ ये पुनर्भावयन्त्येवं, मध्यस्थेनान्तरात्मना । शरीरचित्तयो रूपं, योषितां परमार्थतः ॥ ५९२ ॥ यदुत-"सितासिते विशाले ते, ताम्रराजिविराजिनी । जीव! चिन्तय निर्मिथ्यमक्षिणी मांसगोलको “॥ ५९३ ॥ सुमांसको सुसंस्थानौ, सुश्लिष्टौ वक्रभूषणौ । लम्बमानाविमौ वधौं, कौँ यौ ते मनोहरौ॥ ५९४ ॥ यावेतावुल्लसद्दीप्ती, "भवतश्चित्तरखको । ततचर्मावृतं स्थूलमस्थिमात्रं कपोलकौ ॥ ५९५ ॥ ललाटमपि तादृक्षं, यत्ते हृदयवल्लभम् । दीर्घोत्तुङ्गा सुसंस्थाना, "नासिका चर्मखण्डकम् ॥ ५९६ ॥ यदिदं मधुनस्तुल्यमधरोष्ठं विभाति ते । मांसपेशीद्वयं स्थूरविवं लालामलाविलम् ॥ ५९७ ॥ ये कु"न्दकलिकाकारा, रदनाश्चित्तहारिणः । एतेऽस्थिखण्डकानीति, पद्धतिस्थानि लक्षय ॥ ५९८ ॥ व एषोऽलिकुलच्छायः, केशपाशो मनो| "हरः । योषितां तत्तमो हार्व, प्रकाशमिति चिन्तय ॥ ५९९ ॥ यौ काञ्चनमहाकुम्भविभ्रमौ ते हदि स्थितौ । स्त्रीस्तनौ मूढ ! बुध्यख, "तौ स्थूलौ मांसपिण्डकौ ॥ ६००॥ यल्लासयति ते चित्तं, ललितं दोलताद्वयम् । ततचर्मावृतं दीर्घ, तदस्थियुगलं चलम् ।। ६०१॥ "अशोकपल्लवाकारौ, यौ करौ ते मनोहरौ । तावस्थिघटितौ विखि, चर्मनद्धौ करङ्ककौ ॥ ६०२ ॥ यद्रजयति ते चित्तं, वलित्रयविराजि"तम् । उदरं मूढ ! तद्विष्ठामूत्राश्रमलपूरितम् ॥६०३॥ यदाक्षिपति ते स्वान्तं, श्रोणीबिम्बं विशालकम् । प्रभूताशुचिनिर्वाहद्वारमेतद्विभाव्य"ताम् ॥ ६०४ ।। यो मूहोटकस्तम्भसन्निभौ परिकल्पितौ। तावूरू पूरिती विद्धि, वसामज्जाशुचेर्नलौ ॥६०५ ।। सञ्चारिरक्तराजीवब-10 AGRONARY ॥३८॥ Jain Educat i onal For Private & Personel Use Only XMw.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy