SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ मोहादिबाधका: उपमिती IA वा न संभवन्त्येव, तादृशा माम! देहिनः । येऽमीषां निजवीर्येण, प्रतापक्षतिकारिणः ॥ ५६९ ॥ तच्छ्रुत्वा भागिनेयोक्तं, वचनं विहिता- च. ४-प्र. दरः । अवादीदीदृशं वाक्यं, विमर्शो मधुराक्षरैः ।। ५७० ॥ विद्यन्ते बहिरङ्गेषु, वत्स! लोकेषु तादृशाः । एतेषां वीर्यनिर्णाशाः, के- वलं विरला जनाः ॥ ५७१॥ तथाहि सद्भूतभावनामत्रतत्रशास्त्रा महाधियः । कृतात्मकवचा नित्यं, ये तिष्ठन्ति बहिर्जनाः॥ ५७२ ॥ ॥३८१॥ अप्रमादपरास्तेषामेते सर्वेऽपि भूभुजः। महामोहादयो वत्स!, नोपतापस्य कारकाः॥५७३॥ युग्मम् । यतः सततं भावयन्त्येवं, निर्मलीमसमानसाः । जगत्स्वरूपं ये धीराः, श्रद्धासंशुद्धबुद्धयः ॥ ५७४ ॥ कथम्?-"अनादिनिधनो घोरो, दुस्तरोऽयं भवोदधिः । राधावेधोपमा "लोके, दुर्लभा च मनुष्यता ॥ ५७५ ॥ मूलं हि सर्वकार्याणामाशापाशनिबन्धनम् । जलबुद्बुदसंकाशं, दृष्टनष्टं च जीवितम् ॥ ५७६ ॥ "बीभत्समशुचेः पूर्ण, कर्मजं भिन्नमात्मनः । गम्यं रोगपिशाचानां, शरीरं क्षणभङ्गुरम् ॥ ५७७ ॥ यौवनं च मनुष्याणां, सन्ध्यारक्ताभ्र"विभ्रमम् । चण्डवातेरिताम्भोदमालारूपाश्च सम्पदः ॥ ५७८ ॥ आदौ संपादिताहादाः, पर्यन्तेऽत्यन्तदारुणाः । एते शब्दादिसम्भोगाः "किम्पाकफलसन्निभाः॥ ५७९ ॥ माता भ्राता पिता भार्या, पुत्रो जातेति जन्तवः । जाताः सर्वेऽपि सर्वेषामनादिभवचक्रके ॥ ५८० ॥ | "उषित्वैकतरौ रात्रौ, यथा प्रातर्विहङ्गमाः । यथायथं ब्रजन्येव, कुटुम्बे विश्रबान्धवाः ॥ ५८१ ॥ इष्टैः समागमाः सर्वे, स्वप्नाप्तनिधिरूप"ताम् । नूनं समाचरन्त्येव, वियोगानलतापिनः ।। ५८२ ॥ जरा जर्जरयत्येव, देहं सर्वशरीरिणाम् । दलयत्येव भूतानि, भीमो मृत्युम"हीधरः ।। ५८३ ॥” ततश्च तेषामेवंविधानेकभावनाभ्यासलासिनाम् । निर्धूततमसा पुंसां, निर्मलीभूतचेतसाम् ॥ ५८४ ॥ भद्र ! नैष महीपालो, महामोहः सभार्यकः । जायते बाधको नापि, सवधूकाविमौ सुतौ ॥ ५८५ ।। युग्मम् । अन्यच्च-न शोको नारतिस्तेषां, न | भयो नापि शेषकाः । दुष्टाभिसन्धिप्रमुखा, नूनं बाधाविधायकाः ॥ ५८६ ॥ नामूनि डिम्भरूपाणि, न चान्ये भद्र ! तादृशाः । यैरेवं RSS4552525ॐॐॐ ॥३८ ॥ Jain Educationinternational For Private & Personel Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy