SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ मोहादिबाधका: उपमिती IA वा न संभवन्त्येव, तादृशा माम! देहिनः । येऽमीषां निजवीर्येण, प्रतापक्षतिकारिणः ॥ ५६९ ॥ तच्छ्रुत्वा भागिनेयोक्तं, वचनं विहिता- च. ४-प्र. दरः । अवादीदीदृशं वाक्यं, विमर्शो मधुराक्षरैः ।। ५७० ॥ विद्यन्ते बहिरङ्गेषु, वत्स! लोकेषु तादृशाः । एतेषां वीर्यनिर्णाशाः, के- वलं विरला जनाः ॥ ५७१॥ तथाहि सद्भूतभावनामत्रतत्रशास्त्रा महाधियः । कृतात्मकवचा नित्यं, ये तिष्ठन्ति बहिर्जनाः॥ ५७२ ॥ ॥३८१॥ अप्रमादपरास्तेषामेते सर्वेऽपि भूभुजः। महामोहादयो वत्स!, नोपतापस्य कारकाः॥५७३॥ युग्मम् । यतः सततं भावयन्त्येवं, निर्मलीमसमानसाः । जगत्स्वरूपं ये धीराः, श्रद्धासंशुद्धबुद्धयः ॥ ५७४ ॥ कथम्?-"अनादिनिधनो घोरो, दुस्तरोऽयं भवोदधिः । राधावेधोपमा "लोके, दुर्लभा च मनुष्यता ॥ ५७५ ॥ मूलं हि सर्वकार्याणामाशापाशनिबन्धनम् । जलबुद्बुदसंकाशं, दृष्टनष्टं च जीवितम् ॥ ५७६ ॥ "बीभत्समशुचेः पूर्ण, कर्मजं भिन्नमात्मनः । गम्यं रोगपिशाचानां, शरीरं क्षणभङ्गुरम् ॥ ५७७ ॥ यौवनं च मनुष्याणां, सन्ध्यारक्ताभ्र"विभ्रमम् । चण्डवातेरिताम्भोदमालारूपाश्च सम्पदः ॥ ५७८ ॥ आदौ संपादिताहादाः, पर्यन्तेऽत्यन्तदारुणाः । एते शब्दादिसम्भोगाः "किम्पाकफलसन्निभाः॥ ५७९ ॥ माता भ्राता पिता भार्या, पुत्रो जातेति जन्तवः । जाताः सर्वेऽपि सर्वेषामनादिभवचक्रके ॥ ५८० ॥ | "उषित्वैकतरौ रात्रौ, यथा प्रातर्विहङ्गमाः । यथायथं ब्रजन्येव, कुटुम्बे विश्रबान्धवाः ॥ ५८१ ॥ इष्टैः समागमाः सर्वे, स्वप्नाप्तनिधिरूप"ताम् । नूनं समाचरन्त्येव, वियोगानलतापिनः ।। ५८२ ॥ जरा जर्जरयत्येव, देहं सर्वशरीरिणाम् । दलयत्येव भूतानि, भीमो मृत्युम"हीधरः ।। ५८३ ॥” ततश्च तेषामेवंविधानेकभावनाभ्यासलासिनाम् । निर्धूततमसा पुंसां, निर्मलीभूतचेतसाम् ॥ ५८४ ॥ भद्र ! नैष महीपालो, महामोहः सभार्यकः । जायते बाधको नापि, सवधूकाविमौ सुतौ ॥ ५८५ ।। युग्मम् । अन्यच्च-न शोको नारतिस्तेषां, न | भयो नापि शेषकाः । दुष्टाभिसन्धिप्रमुखा, नूनं बाधाविधायकाः ॥ ५८६ ॥ नामूनि डिम्भरूपाणि, न चान्ये भद्र ! तादृशाः । यैरेवं RSS4552525ॐॐॐ ॥३८ ॥ Jain Educationinternational For Private & Personel Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy