________________
उपमितौ
च. ४-प्र.
॥ ३७९ ॥
Jain Education In
मातुलजल्पितम् । प्रकर्षो दृष्टचित्तत्वादिदं वचनमत्रवीत् ।। ५३२ ॥ चारु माम ! कृतं चारु, मोचितो मोहपञ्जरात् । एतेषां वर्णनं राज्ञां, कुर्वतैवमहं त्वया ॥ ५३३ ॥ केवलं कच्चिदद्यापि, मामं पृच्छामि संशयम् । तमाकर्ण्य पुनर्मामो, मह्यमाख्यातुमर्हति ॥ ५३४ ॥ ततो विमर्शस्तुष्टात्मा, तं प्रतीदमभाषत । पृच्छ यद्रोचते तुभ्यं, भद्र ! विश्रब्धचेतसा ॥ ५३५ ॥ प्रकर्षः प्राह-मामायं, विस्मयो मम मानसे । एषु संकीर्त्यमानेषु राजसु प्रतिभासते ॥ ५३६ ॥ यदाऽमून्मण्डपान्तःस्थान्निरीक्षे नायकानहम् । परिवारं न पश्यामि तदाऽमीषां निजं निजम् ॥ ९३७ ॥ यदा विलोकयाम्युचैः, परिवारं विशेषतः । तदा विस्फारिताक्षोऽपि, नैवेक्षे नायकानहम् ॥ ५३८ ॥ भवता तु परीवारो, नायकाच पृथक् पृथक् । नामतो गुणतश्चैव, कीर्तिता बत तत्कथम् ? ॥ ५३९ ॥ विमर्शेनोदितं - वत्स !, न विधेयोऽत्र विस्मयः । नैकदोभयवेसाऽत्र, कश्चिदन्योऽपि विद्यते ॥ ५४० ॥ यतः — ये निरावरणज्ञानाः, केवलालोकभास्कराः । प्रभुं परिकरं चैषां, नैकदा तेऽपि जानते ॥ ५४१ ।। यतः सामान्यरूपा राजानः सर्वेऽमी परिकीर्तिताः । विशेषरूपा विज्ञेयाः सर्वे चामी परिच्छदाः ॥ ९४२ ॥ तथाहि " अवयष्यत्र सामान्यं, विशेषोऽवयवाः स्मृताः । राजानश्चांशिनो ज्ञेयास्तदंशास्तु पदातयः || ५४३ ॥ इह चना"यातः कस्यचित्साक्षादेकदा ज्ञानगोचरम् । यथैतौ प्रकृतिस्तात !, सा सामान्यविशेषयोः ॥ ५४४ || देशकालस्वभावैश्च भेदोऽपि च न "विद्यते । तादात्म्यादेतयोस्तात !, तेनैकः प्रतिभाति ते ॥ ५४५ ।। तथाहि — के तरोर्भेदिनः सन्तु धवाश्रखदिरादयः । धवाम्रादिविना“भूतः, कस्तरुर्वा ? प्रकाश्यताम् ||५४६ ॥ श्रुतस्कन्धातिरेकेण, नास्त्यध्ययनसंभवः । न चाध्ययननिर्मुक्तः, श्रुतस्कन्धोऽस्ति कश्चन ॥ ५४७ ॥ "केवलं यौगपद्येन, न दृष्टौ तावितीयता । नादृष्टावेव तौ वत्स !, कालभेदेन दर्शनात् ॥ ५४८ ॥ तथाहि--दृश्यते हि तरुर्दूरान्न लक्ष्यन्ते “धवादयः । अभ्यर्णे तेऽपि दृश्यन्ते, लक्ष्यते न तरुः पृथक् ॥ ५४९ ॥ तथापि तहूयं दृष्टं, कालभेदेऽपि कीर्त्यते । यथाक्रमेण दृष्टत्वाद्भूपा
For Private & Personal Use Only
सामान्य
विशेषयोभेदाभेदौ
॥ ३७९ ॥
ainelibrary.org