SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ वेदत्रयं उपमितौ च. ४-प्र. ॥३६९॥ àng उल्लासितबृहल्लिङ्गः, स एव सुरकानने । तद्भार्याक्षोभणे रक्तस्तथाऽनेन विनाटितः ॥ ३४६ ॥ उत्पाद्य सुरते तृष्णां, स एवानेन धारितः ।। | दिव्यं वर्षसहस्रं भो, रतस्थ इति गीयते ॥ ३४७ ॥ अन्येऽपि बहवो लोके, मुनयो देवदानवाः । वशीकृत्य कृताः सर्वे, भद्रानेनात्मकिकराः ॥ ३४८ ॥ कोऽस्य लवयितुं शक्तो, नूनमाज्ञां जगत्रये? । आत्मभूतं महावीर्य, यस्येदं पुरुषत्रयम् ॥ ३४९ ॥ अयं हि प्रथमो भद्र!, पुरुषोऽनघपौरुषः । नाना विज्ञाततद्वीः , पुवेद इति गीयते ॥ ३५० ॥ अमुष्य तात! वीर्येण, बहिरङ्गा मनुष्यकाः । पारदायें प्रवर्तन्ते, जायन्ते कुलदूषणाः ।। ३५१ ॥ द्वितीयः पुरुषो ह्येष, स्त्रीवेद इति सूरिभिः । व्यावर्णितो महातेजा, व्यालुप्तभुवनोदरः ॥३५२॥ अस्य धाम्ना तु नस्तात!, योषितो विगतत्रपाः । विलञ्चय कुलमर्यादां, रज्यन्ते परपूरुषे ॥ ३५३ ॥ तृतीयः पुरुषो भद्र !, पण्डवेद इति स्मृतः । येन दन्दह्यते लोको, बहिरङ्गः स्वतेजसा ।। २५४ ॥ आलप्यालमिदं तावदस्य वीर्यविचेष्टितम् । अनिवेद्यं जने येन, विगुप्यन्ते नपुंसकाः ॥ ३५५ ॥ एतन्नरत्रयं भद्र !, पुरस्कृत्य प्रवर्तते । अविज्ञातबलोऽन्येषां, नूनमेष जगत्रये ॥ ३५६ ॥ या त्वेषा पद्मपत्राक्षी, रूपसौन्दर्यमन्दिरम् । अस्यैव वल्लभा भार्या, रतिरेषाऽभिधीयते ।। ३५७ ॥ येऽनेन निर्जिता लोका, नरवीर्यपुरःसरम् । तेषामेषा प्रकत्यैव, सुखबुद्धिविधायिका ॥ ३५८ ।। तथाहि-अस्या वीर्येण भो लोका, दुःखिताः परमार्थतः । तथापि तेऽदो मन्यन्ते, मकरध्वजनिर्जिताः ॥ ३५९ ॥ यदुत-आहादजनकोऽस्मभ्यं, हितोऽयं मकरध्वजः । प्रतिकूलाः पुनर्येऽस्य, कुतस्तेषां सुखोद्भवः? ॥ ३६० ॥ ततो रत्याऽनया भद्र!, ते वशीकृतमानसाः । जाता निर्मिथ्यभावेन, मकरध्वजकिङ्कराः ॥ ३६१ ॥ तदादेशेन कुर्वन्ति, हास्यस्थानं विवे|किनाम् । आत्मनः सततं मूढा, नानारूपं विडम्बनम् ॥ ३६२ ॥ कथम् ?-रचयन्त्यात्मनो वेषं, योषितां चित्तरजनम् । आचरन्ति |च मोहेन, देहे भूषणविभ्रमम् ॥ ३६३ ।। तुष्यन्ति कामिनीलोललोचनार्धविलोकिताः । वहन्ति हृदये प्रीति, तदालापैमनोरमैः ॥३६४।। M॥३६९॥ - Có h Jain Education For Private Personel Use Only ( Mainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy