________________
यतः जन्मना लघुरप्येष राणा द्वेषगजेन्द्रं तुः जायन्त महदो लोकाः ।
उपमितौत्तमे । चित्तं विश्रान्तमेवोच्चैर्गुणाः कल्याणकारकाः ॥ ३२७ ॥ यतः-जन्मना लघरप्येष, रागकेसरिणोऽधुना । वीर्येणाभ्यधिको लोके, च. ४-प्र. IPनरेन्द्रो भद्र ! वर्तते ।। ३२८ ॥ तथाहि न भयं यान्ति दृष्टेन, रागकेसरिणा जनाः । दृष्ट्वा द्वेषगजेन्द्रं तु, जायन्ते भीत्वकम्पिताः
४॥ ३२९ ॥ यावदेष महावीर्यश्चित्ताटव्यां विजृम्भते । बहिरङ्गजने तावत्कौतस्त्यः प्रीतिसङ्गमः ? ॥ ३३० ॥ येऽत्यन्तसुहृदो लोकाः, ॥३६८॥
स्नेहनिर्भरमानसाः । तेषामेष प्रकृत्यैव, चित्तविश्लेषकारकः ॥ ३३१ ॥ चित्तवृत्तिमहाटव्यां, चलत्येष यदा यदा । तदा तदा भवन्त्येव, जनास्तेऽत्यन्तदुःखिताः ॥ ३३२ ॥ परलोके पुनर्यान्ति, नरके तीव्रवेदने । आबद्धमत्सरा वैरै, प्रविधाय परस्परम् ।। ३३३ ॥ भद्र! द्वेषगजेन्द्रोऽयं, यथार्थो नात्र संशयः । यस्य गन्धेन भज्यन्ते, विवेकाः कलभा इव ।। ३३४ ॥ या त्वस्य भार्या तद्वार्ता, शोकेनैव निवेदिता । अत एव न पार्श्वस्था, दृश्यते साऽविवेकिता ॥ ३३५ ॥ प्रकर्षः प्राह यस्त्वेष, निविष्टस्तुङ्गविष्टरे । नरत्रयपरीवारः, पृष्ठतोऽस्यैव भूपतेः ॥ ३३६ ॥ रक्तवर्णोऽतिलोलाक्षो, विलासोल्लासतत्परः । पृष्ठापीडिततूणीरः, सचापः पञ्चबाणकः ॥ ३३७ ॥ भ्रमद्भमरझङ्कारहारिगीतविनोदितः । विलसद्दीप्तिलावण्यवर्ण्यया वरयोषिता ॥ ३३८ ॥ अस्या एव तनुश्लेषवक्रचुम्बनलालसः । कमनीयाकृतिः सोऽयं, कतमो माम! भूपतिः ? ॥ ३३९ ॥ चतुर्भिः कलापकम् । विमर्शः प्राह नन्वेष, महाश्चर्यविधायकः । उद्दामपौरुषो लोके, प्रसिद्धो मकरध्वजः ॥ ३४० ॥ यद्येषोऽद्भुतकर्तव्यो, भवता नावधारितः । न किञ्चिदपि विज्ञातं, भद्राद्यापि ततस्त्वया ॥ ३४१ ॥ यो भद्र! श्रूयते लोके, परमेष्ठी पितामहः । सोऽनेन कारितो गौरीविवाहे बालविप्लवम् ॥ ३४२ ॥ स एव चाप्सरोनृत्तरूपविक्षिप्तमानसः । अनेनैव कृतो भद्र!, पञ्चवक्रधरः किल ॥ ३४३ ॥ यो लोके जगतो व्यापी, श्रूयते किल केशवः । अनेन कारितः सोऽपि, गोपीनां पावन्दनम् ॥ ३४४ ॥ अन्यच्च भद्र ! सोऽनेन, सुप्रसिद्धो महेश्वरः । दापितोऽर्ध शरीरस्य, गौर्यै विरहकातरः॥ ३४५ ॥
वेदत्रयं
Jain Education in
For Private & Personel Use Only
Maininelibrary.org