SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ यतः जन्मना लघुरप्येष राणा द्वेषगजेन्द्रं तुः जायन्त महदो लोकाः । उपमितौत्तमे । चित्तं विश्रान्तमेवोच्चैर्गुणाः कल्याणकारकाः ॥ ३२७ ॥ यतः-जन्मना लघरप्येष, रागकेसरिणोऽधुना । वीर्येणाभ्यधिको लोके, च. ४-प्र. IPनरेन्द्रो भद्र ! वर्तते ।। ३२८ ॥ तथाहि न भयं यान्ति दृष्टेन, रागकेसरिणा जनाः । दृष्ट्वा द्वेषगजेन्द्रं तु, जायन्ते भीत्वकम्पिताः ४॥ ३२९ ॥ यावदेष महावीर्यश्चित्ताटव्यां विजृम्भते । बहिरङ्गजने तावत्कौतस्त्यः प्रीतिसङ्गमः ? ॥ ३३० ॥ येऽत्यन्तसुहृदो लोकाः, ॥३६८॥ स्नेहनिर्भरमानसाः । तेषामेष प्रकृत्यैव, चित्तविश्लेषकारकः ॥ ३३१ ॥ चित्तवृत्तिमहाटव्यां, चलत्येष यदा यदा । तदा तदा भवन्त्येव, जनास्तेऽत्यन्तदुःखिताः ॥ ३३२ ॥ परलोके पुनर्यान्ति, नरके तीव्रवेदने । आबद्धमत्सरा वैरै, प्रविधाय परस्परम् ।। ३३३ ॥ भद्र! द्वेषगजेन्द्रोऽयं, यथार्थो नात्र संशयः । यस्य गन्धेन भज्यन्ते, विवेकाः कलभा इव ।। ३३४ ॥ या त्वस्य भार्या तद्वार्ता, शोकेनैव निवेदिता । अत एव न पार्श्वस्था, दृश्यते साऽविवेकिता ॥ ३३५ ॥ प्रकर्षः प्राह यस्त्वेष, निविष्टस्तुङ्गविष्टरे । नरत्रयपरीवारः, पृष्ठतोऽस्यैव भूपतेः ॥ ३३६ ॥ रक्तवर्णोऽतिलोलाक्षो, विलासोल्लासतत्परः । पृष्ठापीडिततूणीरः, सचापः पञ्चबाणकः ॥ ३३७ ॥ भ्रमद्भमरझङ्कारहारिगीतविनोदितः । विलसद्दीप्तिलावण्यवर्ण्यया वरयोषिता ॥ ३३८ ॥ अस्या एव तनुश्लेषवक्रचुम्बनलालसः । कमनीयाकृतिः सोऽयं, कतमो माम! भूपतिः ? ॥ ३३९ ॥ चतुर्भिः कलापकम् । विमर्शः प्राह नन्वेष, महाश्चर्यविधायकः । उद्दामपौरुषो लोके, प्रसिद्धो मकरध्वजः ॥ ३४० ॥ यद्येषोऽद्भुतकर्तव्यो, भवता नावधारितः । न किञ्चिदपि विज्ञातं, भद्राद्यापि ततस्त्वया ॥ ३४१ ॥ यो भद्र! श्रूयते लोके, परमेष्ठी पितामहः । सोऽनेन कारितो गौरीविवाहे बालविप्लवम् ॥ ३४२ ॥ स एव चाप्सरोनृत्तरूपविक्षिप्तमानसः । अनेनैव कृतो भद्र!, पञ्चवक्रधरः किल ॥ ३४३ ॥ यो लोके जगतो व्यापी, श्रूयते किल केशवः । अनेन कारितः सोऽपि, गोपीनां पावन्दनम् ॥ ३४४ ॥ अन्यच्च भद्र ! सोऽनेन, सुप्रसिद्धो महेश्वरः । दापितोऽर्ध शरीरस्य, गौर्यै विरहकातरः॥ ३४५ ॥ वेदत्रयं Jain Education in For Private & Personel Use Only Maininelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy