________________
उपमितौ च. ४-प्र.
रागत्रयं.
॥३६७॥
ROSAGASALMANCE
तापुत्रौ परस्परम् । एतावेव वशीकर्तु, क्षमौ भद्र! जगत्रयम् ॥ ३०८॥ यावद्विप्रतपत्येष, नरेन्द्रो रागकेसरी । बहिरङ्गजने तावत्कोतस्त्यः सुखसङ्गमः ॥ ३०९ ॥ यतोऽयं भद्र! संसारसागरोदरवर्तिषु । बहिर्लोके पदार्थेषु, प्रीतिमुत्पादयत्यलम् ॥ ३१० ॥ संक्लिष्टपुण्यजन्येषु, संविष्टेषु स्वरूपतः। संक्लेशजनकेष्वेव, संबध्नाति पृथग्जनम् ।। ३११ ।। अन्यच्च भद्र ! पार्श्वस्थं, यदस्य पुरुषत्रयम् । रक्तव-ठा
मतिस्निग्धदेहं च प्रविभाव्यते ॥ ३१२ ॥ एते हि निजवीर्येण, शरीरादविभेदिनः । अनेन विहिता भद्र !, त्रयोऽप्यात्मवयस्यकाः ॥ ३१३ ॥ अतत्त्वाभिनिवेशाख्यः, प्रथमोऽयं नरोत्तमः । दृष्टिराग इति प्रोक्तः, स एवापरसूरिभिः ॥ ३१४ ॥ अयं हि भद्र! तीर्थ्यानामात्मीयात्मीयदर्शने । करोति चेतसोऽत्यन्तमाबन्धमनिवर्तकम् ॥ ३१५ ।। द्वितीयो भवपाताख्यः, पुरुषो भद्र! गीयते । अयमेवापरैः प्राज्ञैः, स्नेहराग इतीरितः ॥ ३१६ ।। अयं तु कुरुते द्रव्यपुत्रखजनसन्ततौ । मूर्छातिरेकतो भद्र!, चेतसो गाढबन्धनम् ॥ ३१७ ॥ अभिष्वङ्गाभिधानोऽयं, तृतीयः पुरुषः किल । गीतो विषयरागाख्यः, स एव मुनिपुङ्गवैः ॥ ३१८ ।। अयं तु भद्र! लोकेऽत्र, भ्रमन्नुद्दामलीलया । शब्दादिविषयमामे, लौल्यमुत्पादयत्यलम् ॥ ३१९ ॥ नरत्रयस्य सामर्थ्यादस्य भद्र! जगत्रयम् । आक्रान्तमेव मन्येऽहं, राग
मूढता केसरिणा पुनः ॥ ३२० ॥ सन्मार्गमत्तमातङ्गकुम्भनिर्भेदनक्षमः । स्ववीर्याक्रान्तभुवनः, सत्योऽयं रागकेसरी ॥ ३२१॥ या त्वेषा दृश्यते भद्र!, निविष्टाऽस्यैव विष्टरे । अस्यैव भार्या सा ज्ञेया, मूढता लोकविश्रुता ॥ ३२२ ॥ ये केचिदस्य विद्यन्ते, गुणा भद्र! महीपतेः।
द्वेषगतेऽस्यां सर्वे सुभार्यायां, विज्ञेयाः सुप्रतिष्ठिताः ॥ ३२३ ॥ यतः शरीरनिक्षिप्तां, पार्वतीमिव शङ्करः । एनामेष सदा राजा, धारयत्येव
जेन्द्रः मूढताम् ॥ ३२४ ॥ ततश्च-अन्योऽन्यानुगतो नित्यं, यथा देहस्तथाऽनयोः । अविभक्ता विवर्तन्ते, गुणा अपि परस्परम् ।। ३२५ ॥ ॥३६७॥ यस्त्वेष वामके पार्श्वे, निविष्टोऽस्यैव भूपतेः । भद्र! द्वेषगजेन्द्रोऽसौ, प्रतीतः प्रायशस्तव ॥ ३२६ ॥ अत्रापि च महामोहनरेन्द्रस्य सुतो-|
Jan Education
For Private Personal use only