SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. कुदृष्टिजा खण्डिनः "चित्तदेवा बिलावासास्तथा मैथुनचारिणः ॥२८९।। अम्बरा असिधाराश्च, तथा माठरपुत्रकाः। चन्द्रोद्गमिका(ख्या)श्चान्ये, तथैवोदकमृत्तिकाः "॥ २९० ॥ एकैकस्थालिका मङ्खाः, पक्षापक्षा गजध्वजाः । उलूकपक्षा मात्रादिभक्ताः कण्टकमर्दकाः ॥ २९१ ॥” कियन्तो वाऽत्र गण्यन्ते ?, नानाभिप्रायसंस्थिताः । पाषण्डिनो भवन्त्येते, भो! नानाविधनामकाः ॥ २९२ ॥ देवैर्वादैस्तथा वेषैः, कल्पैर्मोक्षविशुद्धिभिः। वृत्तिभिश्च भवन्त्येते, भिन्नरूपाः परस्परम् ॥ २९३ ॥ तथाहि-रुद्रेन्द्रचन्द्रनागेन्द्रबुद्धोपेन्द्रविनायकाः । निजाकूतवशादेतैरिष्टा देवाः पृथक् पृथक् ।। २९४ ॥ ईश्वरो नियतिः कर्म, स्वभावः काल एव वा । जगत्कर्तेति वादोऽयं, सर्वेषां भिन्नरूपकः ॥ २९५ ॥ त्रिदण्डकुण्डिकामुण्डवल्कचीवरभेदतः । वेषः परस्परं भिन्नः, स्फुट एवोपलक्ष्यते ॥ २९६ ॥ कल्पोऽपि भक्ष्याभक्ष्यादिलक्षणः स्वधिया किल।। अन्योऽन्यं भिन्न एवैषां, तीर्थिनां भद्र! वर्तते ॥ २९७ ॥ विध्यातदीपरूपाभः, सुखदुःखविवर्जितः । एषां पाषण्डिनां भद्र!, मोक्षो भिन्नः परस्परम् ।। २९८ ।। निजाकूतवशेनैव, विशुद्धिरपि तीर्थिकैः । अमीभिर्भद्र ! सत्त्वानां, भिन्नरूपा निवेदिता ।। २९९ ॥ कन्दमूलफलाहाराः, केचिद्धान्याशिनोऽपरे । वृत्तितोऽपि विभिद्यन्ते, ततस्ते भद्र! तीर्थिकाः ॥ ३००॥ एवं च स्थिते—अमी वराकाः सर्वेऽपि, दोलायन्ते भवोदधौ । अस्याः कुदृष्टेर्वीर्येण, शुद्धधर्मबहिष्कृताः ॥३०शा तत्त्वमार्गमजानन्तो, विवदन्ते परस्परम् । स्वाग्रहं नैव ४ मुश्चन्ति, रुष्यन्ति हितभाषिणे ॥३०२॥ तदेषा भुवनख्याता, मिथ्यादर्शनवत्सला । कुदृष्टिविलसत्येव, बहिरङ्गजनाहिता ॥ ३०३ ॥ 8 यस्त्वेष विष्टरे तुङ्गे, निविष्टः प्रविलोक्यते । प्रसिद्ध एव भद्रस्य, स नूनं रागकेसरी ॥ ३०४ ॥ एनं राज्ये निधायोच्चैर्महामोहनराधिपः। ९ गतचिन्ताभरो नूनं, कृतार्थो वर्ततेऽधुना ॥ ३०५ ॥ केवलं दत्तराज्येऽपि, महामोहनरेश्वरे । सविशेष करोत्येष, विनयं नयपण्डितः M॥ ३०६ ॥ महामोहनरेन्द्रोऽपि, सर्वेषामग्रतः स्फुटम् । अस्यैव भोः सुपुत्रस्य, प्रभुत्वं ख्यापयत्यलम् ।। ३०७॥ तदेवं मेहसंबद्धौ, पि ॥३६६ ॥ in Education For Private & Personal Use Only amalainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy