________________
उपमितौ च. ४-प्र.
कुदृष्टिजा
खण्डिनः
"चित्तदेवा बिलावासास्तथा मैथुनचारिणः ॥२८९।। अम्बरा असिधाराश्च, तथा माठरपुत्रकाः। चन्द्रोद्गमिका(ख्या)श्चान्ये, तथैवोदकमृत्तिकाः "॥ २९० ॥ एकैकस्थालिका मङ्खाः, पक्षापक्षा गजध्वजाः । उलूकपक्षा मात्रादिभक्ताः कण्टकमर्दकाः ॥ २९१ ॥” कियन्तो वाऽत्र गण्यन्ते ?, नानाभिप्रायसंस्थिताः । पाषण्डिनो भवन्त्येते, भो! नानाविधनामकाः ॥ २९२ ॥ देवैर्वादैस्तथा वेषैः, कल्पैर्मोक्षविशुद्धिभिः। वृत्तिभिश्च भवन्त्येते, भिन्नरूपाः परस्परम् ॥ २९३ ॥ तथाहि-रुद्रेन्द्रचन्द्रनागेन्द्रबुद्धोपेन्द्रविनायकाः । निजाकूतवशादेतैरिष्टा देवाः पृथक् पृथक् ।। २९४ ॥ ईश्वरो नियतिः कर्म, स्वभावः काल एव वा । जगत्कर्तेति वादोऽयं, सर्वेषां भिन्नरूपकः ॥ २९५ ॥ त्रिदण्डकुण्डिकामुण्डवल्कचीवरभेदतः । वेषः परस्परं भिन्नः, स्फुट एवोपलक्ष्यते ॥ २९६ ॥ कल्पोऽपि भक्ष्याभक्ष्यादिलक्षणः स्वधिया किल।। अन्योऽन्यं भिन्न एवैषां, तीर्थिनां भद्र! वर्तते ॥ २९७ ॥ विध्यातदीपरूपाभः, सुखदुःखविवर्जितः । एषां पाषण्डिनां भद्र!, मोक्षो भिन्नः परस्परम् ।। २९८ ।। निजाकूतवशेनैव, विशुद्धिरपि तीर्थिकैः । अमीभिर्भद्र ! सत्त्वानां, भिन्नरूपा निवेदिता ।। २९९ ॥ कन्दमूलफलाहाराः, केचिद्धान्याशिनोऽपरे । वृत्तितोऽपि विभिद्यन्ते, ततस्ते भद्र! तीर्थिकाः ॥ ३००॥ एवं च स्थिते—अमी वराकाः सर्वेऽपि, दोलायन्ते भवोदधौ । अस्याः कुदृष्टेर्वीर्येण, शुद्धधर्मबहिष्कृताः ॥३०शा तत्त्वमार्गमजानन्तो, विवदन्ते परस्परम् । स्वाग्रहं नैव ४
मुश्चन्ति, रुष्यन्ति हितभाषिणे ॥३०२॥ तदेषा भुवनख्याता, मिथ्यादर्शनवत्सला । कुदृष्टिविलसत्येव, बहिरङ्गजनाहिता ॥ ३०३ ॥ 8 यस्त्वेष विष्टरे तुङ्गे, निविष्टः प्रविलोक्यते । प्रसिद्ध एव भद्रस्य, स नूनं रागकेसरी ॥ ३०४ ॥ एनं राज्ये निधायोच्चैर्महामोहनराधिपः। ९ गतचिन्ताभरो नूनं, कृतार्थो वर्ततेऽधुना ॥ ३०५ ॥ केवलं दत्तराज्येऽपि, महामोहनरेश्वरे । सविशेष करोत्येष, विनयं नयपण्डितः M॥ ३०६ ॥ महामोहनरेन्द्रोऽपि, सर्वेषामग्रतः स्फुटम् । अस्यैव भोः सुपुत्रस्य, प्रभुत्वं ख्यापयत्यलम् ।। ३०७॥ तदेवं मेहसंबद्धौ, पि
॥३६६ ॥
in Education
For Private & Personal Use Only
amalainelibrary.org