SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. "|| २७० ।। ततस्तेषामपारेऽत्र, पतितानां भवोदधौ । निर्नष्टशिष्टचेष्टानां, पुनरुत्तरणं कुतः ? ।। २७१ ॥ तदनेनापि रूपेण, मिथ्यादर्श"नसंस्कृतम् । इदं विजृम्भते भद्र !, विपर्यासाख्यमासनम् ।।२७२॥ अन्यच्च-प्रशमानन्दरूपेषु, सारेषु नियमादिषु । वशेनास्य भवेद्भद्र !, "दुःखबुद्धिर्जडात्मनाम् ॥ २७३ ।। गत्वरेषु सुतुच्छेषु, दुःखरूपेषु देहिनाम् । भोगेषु सुखबुद्धिः स्यादासनस्यास्य तेजसा ॥ २७४ ।। "तथैष भुवनख्यातः, प्रधानोऽत्र महाबलः। बहिरङ्गजनस्योचैः, सर्वानर्थविधायकः ।। २७५ ॥” मया भद्र! समासेन, मिथ्यादर्शननामकः । महामोहनरेन्द्रस्य, कथितस्ते महत्तमः ।। २७६ ॥ ततः प्रकर्षोऽदुष्टात्मा, श्रुत्वा मातुलभाषितम् । उत्क्षिप्य दक्षिणं पाणिं, तं प्रतीदमभाषत ।। २७७ ।।-चारु चारु कृतं माम!, यदेष कथितस्त्वया । या त्वेषाऽर्धासनेऽस्यैव, सा किनाम्नी वराङ्गना ? ॥ २७८ ॥ विमर्शोऽवददेषाऽपि, समानबलसाहसा । अस्यैव भार्या विज्ञेया, कुदृष्टि म विश्रुता ॥ २७९ ॥ ये दृश्यन्ते विमार्गस्था, बहिरङ्गजने सदा । भद्र ! पाषण्डिनः केचित्तेषामेषैव कारणम् ॥ २८० ॥ ते चामी नामभिर्भद्र !, वर्ण्यमाना मया स्फुटम् । ज्ञेया देवादिभेदेन, विभिन्नाश्च परस्परम् ।। २८१ ।। तद्यथा-"शाक्यास्त्रैदण्डिकाः शैवाः, गौतमाश्चरकास्तथा। सामानिकाः सामपरा, वेधर्माश्च धार्मिकाः "॥ २८२ ।। आजीविकास्तथा शुद्धा, विद्युहन्ताश्च चुञ्चणाः । माहेन्द्राश्चारिका धूमा, बद्धवेषाश्च खुख़ुकाः ॥२८३ ।। उल्काः पाशुपताः "कौलाः, काणादाश्चर्मखण्डिकाः । सयोगिनस्तथोलूका, गोदेहा यज्ञतापसाः ॥ २८४ ॥ घोषपाशुपताश्चान्ये, कन्दच्छेदा दिगम्बराः । | "कामर्दकाः कालमुखाः, पाणिलेहात्रिराशिकाः ।। २८५॥ कापालिकाः क्रियावादा गोव्रता मृगचारिणः । लोकायताः शङ्खधमाः, सिद्ध“वादाः कुलंतपाः ॥ २८६ ॥ तापसा गिरिरोहाश्च, शुचयो राजपिण्डकाः । संसारमोचकाश्चान्ये, सर्वावस्थास्तथा परे ॥ २८७ ।। अज्ञा"नवादिनो ज्ञेयास्तथा पाण्डुरभिक्षवः । कुमारप्रतिकाश्चान्ये, शरीररिपवस्तथा ॥ २८८ ॥ उत्कन्दाश्चक्रवालाच, त्रपवो हस्तितापसाः। कुदृष्टिजाताः पाखण्डिन: ||३६५॥ Jain Education For Private & Personel Use Only Wrjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy