SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. "|| २७० ।। ततस्तेषामपारेऽत्र, पतितानां भवोदधौ । निर्नष्टशिष्टचेष्टानां, पुनरुत्तरणं कुतः ? ।। २७१ ॥ तदनेनापि रूपेण, मिथ्यादर्श"नसंस्कृतम् । इदं विजृम्भते भद्र !, विपर्यासाख्यमासनम् ।।२७२॥ अन्यच्च-प्रशमानन्दरूपेषु, सारेषु नियमादिषु । वशेनास्य भवेद्भद्र !, "दुःखबुद्धिर्जडात्मनाम् ॥ २७३ ।। गत्वरेषु सुतुच्छेषु, दुःखरूपेषु देहिनाम् । भोगेषु सुखबुद्धिः स्यादासनस्यास्य तेजसा ॥ २७४ ।। "तथैष भुवनख्यातः, प्रधानोऽत्र महाबलः। बहिरङ्गजनस्योचैः, सर्वानर्थविधायकः ।। २७५ ॥” मया भद्र! समासेन, मिथ्यादर्शननामकः । महामोहनरेन्द्रस्य, कथितस्ते महत्तमः ।। २७६ ॥ ततः प्रकर्षोऽदुष्टात्मा, श्रुत्वा मातुलभाषितम् । उत्क्षिप्य दक्षिणं पाणिं, तं प्रतीदमभाषत ।। २७७ ।।-चारु चारु कृतं माम!, यदेष कथितस्त्वया । या त्वेषाऽर्धासनेऽस्यैव, सा किनाम्नी वराङ्गना ? ॥ २७८ ॥ विमर्शोऽवददेषाऽपि, समानबलसाहसा । अस्यैव भार्या विज्ञेया, कुदृष्टि म विश्रुता ॥ २७९ ॥ ये दृश्यन्ते विमार्गस्था, बहिरङ्गजने सदा । भद्र ! पाषण्डिनः केचित्तेषामेषैव कारणम् ॥ २८० ॥ ते चामी नामभिर्भद्र !, वर्ण्यमाना मया स्फुटम् । ज्ञेया देवादिभेदेन, विभिन्नाश्च परस्परम् ।। २८१ ।। तद्यथा-"शाक्यास्त्रैदण्डिकाः शैवाः, गौतमाश्चरकास्तथा। सामानिकाः सामपरा, वेधर्माश्च धार्मिकाः "॥ २८२ ।। आजीविकास्तथा शुद्धा, विद्युहन्ताश्च चुञ्चणाः । माहेन्द्राश्चारिका धूमा, बद्धवेषाश्च खुख़ुकाः ॥२८३ ।। उल्काः पाशुपताः "कौलाः, काणादाश्चर्मखण्डिकाः । सयोगिनस्तथोलूका, गोदेहा यज्ञतापसाः ॥ २८४ ॥ घोषपाशुपताश्चान्ये, कन्दच्छेदा दिगम्बराः । | "कामर्दकाः कालमुखाः, पाणिलेहात्रिराशिकाः ।। २८५॥ कापालिकाः क्रियावादा गोव्रता मृगचारिणः । लोकायताः शङ्खधमाः, सिद्ध“वादाः कुलंतपाः ॥ २८६ ॥ तापसा गिरिरोहाश्च, शुचयो राजपिण्डकाः । संसारमोचकाश्चान्ये, सर्वावस्थास्तथा परे ॥ २८७ ।। अज्ञा"नवादिनो ज्ञेयास्तथा पाण्डुरभिक्षवः । कुमारप्रतिकाश्चान्ये, शरीररिपवस्तथा ॥ २८८ ॥ उत्कन्दाश्चक्रवालाच, त्रपवो हस्तितापसाः। कुदृष्टिजाताः पाखण्डिन: ||३६५॥ Jain Education For Private & Personel Use Only Wrjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy