________________
उपमितौ च. ४-प्र.
वर्णनं
॥३६२॥
"सुखम् । स्वाध्यायध्यानयोगेषु, सक्तचित्ताः सदाऽऽसते ॥२१४॥ ते निर्गुणा अलोकज्ञा, विमूढा भोगवञ्चिताः। अपमानहता दीना, ज्ञा- मिथ्यात्व"नहीनाश्च कुर्कुटाः ॥ २१५ ॥ इत्येवं निजवीर्येण, बहिरङ्गजनेऽमुना । ते मिथ्यादर्शनाख्रन, स्थापिता भद्र! साधवः ॥२१६॥ सप्तभिः
नदीना "कुलकम् । तथा-उद्वाहनं च कन्यानां, जननं पुत्रसंहतेः । निपातनं च शत्रूणां, कुटुम्बपरिपालनम् ।। २१७ ॥ यदेवमादिकं कर्म, "घोरसंसारकारणम् । तद्धर्म इति संस्थाप्य, दर्शितं भवतारणम् ।। २१८ ॥ युग्मम् । यः पुनर्ज्ञानचारित्रदर्शनान्यो विमुक्तये । मार्गः "सर्वोऽपि सोऽनेन, लोपितो लोकवैरिणा ।। २१९ ॥” ततश्च भद्र! यत्तुभ्यं, समासेन मयोदितम् । वीर्य महत्तमस्यास्य, ब्रुवाणेन पुरा यथा ॥ २२० ।-अदेवे देवसङ्कल्पमधर्मे धर्ममानिताम् । अतत्त्वे तत्त्वबुद्धिं च, करोत्येष जडात्मनाम् ॥ २२१ ॥ अपात्रे पात्रतारोपमगुणेषु गुणग्रहम् । संसारहेतौ निर्वाणहेतुभावं करोत्ययम् ॥ २२२ ॥ तदिदं लेशतः सर्व, प्रविवेच्य निवेदितम् । विस्तरेण पुनर्वीर्य, कोऽस्य वर्णयितुं क्षमः ? ॥ २२३ ॥ अन्यच्चायं निजे चित्ते, मन्यते भद्र! सर्वदा । मदोद्धतः प्रकृत्यैव, महामोहमहत्तमः ॥ २२४ ॥18
चित्तविक्षेनिक्षिप्तभर एवायं, राज्यसर्वस्वनायकः । महामोहनरेन्द्रेण, कृतः सर्वत्र वस्तुनि ॥ २२५ ।। एवं च स्थिते-विश्रम्भार्पितचित्ताय, मया
पतृष्णा| उस्मै हितमुच्चकैः । अन्यव्यापारशून्येन, कर्तव्यं ननु सर्वदा ।। २२६ ॥ ततश्च-मण्डपं चित्तविक्षेपं, तृष्णानाम्नी च वेदिकाम् । गाढं निर्याम
समारयत्येष, विपर्यासं च विष्टरम् ॥ २२७ ॥ समारितानि चानेन, यदेतानि बहिर्जने । कुर्वन्ति तदहं वच्मि, समाकर्णय साम्प्रतम् महिमा VIII २२८॥ यदुन्मत्तग्रहप्रस्तसन्निभो भद्र! सर्वदा । जनो दोलायतेऽत्यर्थ, धर्मबुद्ध्या वराककः ॥ २२९ ॥ कथम् करोति भैरवेल
"पातं, याति मूढो महापथम् । शीतेन म्रियते माघे, कुर्वाणो जलगाहनम् ॥ २३०॥ पञ्चाग्नितपने रक्तो, दह्यते तीव्रवहिना । गवाश्व-IM॥३६२॥ "त्था दिवन्दारुरास्फोटयति मस्तकम् ।।२३।। कुमारीब्राह्मणादीनामतियानेन निर्धनः। सहते दुःखसङ्घातं, श्राद्धः पूतमलः किल ।।२३२॥
Jain Educat
i onal
For Private & Personel Use Only
WMjainelibrary.org