SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ उपमिती च.४-प्र. मिथ्यात्ववर्णनं ॥३६१॥ "सत्यं प्रतीतितः सिद्ध, प्रमाणेन प्रतिष्ठितम् । तथापि निद्भुते भद्र!, तदेष जनदारुणः॥१९६॥ युग्मम् ।। तथा गृहिणो ललनाऽवाच्यम"र्दका भूतघातिनः । असत्यसन्धाः पापिष्ठाः, सङ्ग्रहोपाहे रताः ॥ १९७ ॥ तथाऽन्ये पचने नित्यमासक्ताः पाचनेऽपि च । मद्यपाः पर"दारादिसेविनो मार्गदूषकाः॥ १९८ ॥ तप्तायोगोलकाकारास्तथापि यतिरूपिणः । ये तेषु कुरुते भद्र !, पात्रबुद्धिमयं जने ॥ १९९ ॥ "त्रिभिर्विशेषकम् । सज्ज्ञानध्यानचारित्रतपोवीर्यपरायणाः । गुणरत्नधना धीरा, जङ्गमाः कल्पपादपाः ॥ २००॥ संसारसागरोत्तारकारिणो "दानदायिनाम् । अचिन्त्यवस्तुबोहित्थतुल्या ये पारगामिनः ॥ २०१॥ तेषु निर्मलचित्तेषु, पुरुषेषु जडात्मनाम् । एषोऽपात्रधियं धत्ते, "महामोहमहत्तमः ।। २०२ ।। त्रिभिर्विशेषकम् । तथा-कौतुकं कुहकं मन्त्रमिन्द्रजालं रसक्रियाम् । निर्विषीकरणं तत्रमन्तर्धानं सविस्म“यम् ॥ २०३ ॥ औत्पातमान्तरिक्षं च, दिव्यमाझं खरं तथा । लक्षणं व्यञ्जनं भौम, निमित्तं च शुभाशुभम् ।। २०४ ।। उच्चाटनं सवि| "द्वेषमायुर्वेदं सजातकम् । ज्योतिष गणितं चूर्ण, योगलेपास्तथाविधाः ।। २०५॥ ये चान्ये विस्मयकरा, विशेषाः पापशास्त्रजाः । अन्ये "भूतोपमर्दस्य, हेतवः शाठ्यकेतवः ॥ २०६ ॥ तानेव ये विजानन्ति, निःशङ्काश्च प्रयुञ्जते । न धर्मबाधां मन्यन्ते, शठाः पापपरायणाः "॥ २०७॥ त एव गुणिनो धीरास्ते पूज्यास्ते मनस्विनः । त एव वीरास्ते लाभभाजिनस्ते मुनीश्वराः ॥ २०८ ॥ इत्येवं निजवीर्येण, "बहिरङ्गजनेऽमुना । मिथ्यादर्शनसंज्ञेन, भद्र! पापाः प्रकाशिताः ॥ २०९ ॥ सप्तभिः कुलकम् । ये पुनर्मत्रतादिवेदिनोऽप्यतिनि:"स्पृहाः । निवृत्ता लोकयात्राया, धर्मातिक्रमभीरवः ।। २१० ॥ मूकान्धाः परवृत्तान्ते, स्वगुणाभ्यासने रताः । असक्ता निजदेहेऽपि, किं| "पुनविणादिके? ॥ २११ ॥ कोपाहङ्कारलोभाद्यैर्दूरतः परिवर्जिताः । तिष्ठन्ति शान्तब्यापारा, निरपेक्षास्तपोधनाः ॥ २१२ ।। न दि"व्यादिकमाख्यान्ति, कुहकादि न कुर्वते । मन्त्रादीनानुतिष्ठन्ति, निमित्तं न प्रयुजते ॥ २१३ ॥ लोकोपचार निःशेषं, परित्यज्य यथा-3 ॥३६१॥ उ.भ. ३१ Jain Educational For Private & Personal Use Only TIMr.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy