SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. मिथ्यादर्श| नमहिमा ॥३६॥ | "क्लिष्टकर्मकलातीता, निष्कलाश्च महाधियः ॥ १७७ ॥ शान्तक्रोधा गताटोपा, हास्यत्रीहेतिवर्जिताः । आकाशनिर्मला धीरा, भगवन्तः "सदाशिवाः ॥ १७८ ॥ शापप्रसादनिर्मुक्तास्तथापि शिवहेतवः । त्रिकोटिशुद्धशास्त्रार्थदेशकाः परमेश्वराः ॥ १७९॥ ये पूज्याः सर्वदेवानां, "ये ध्येयाः सर्वयोगिनाम् । ये चाज्ञाकारणाराध्या, निर्द्वन्द्वफलदायिनः ॥ १८० ॥ ते मिथ्यादर्शनाख्येन, लोकेऽनेन स्ववीर्यतः । देवाः "प्रच्छादिता भद्र !, न ज्ञायन्ते विशेषतः ॥ १८१ ॥ पञ्चभिः कुलकम् । तथा-हिरण्यदानं गोदानं, धरादानं मुहुर्मुहुः । स्नानं पानं च "धूमस्य, पञ्चाग्नितपनं तथा ॥ १८२ ॥ तर्पणं चण्डिकादीनां, तीर्थान्तरनिपातनम् । यतेरेकगृहे पिण्डो, गीतवाद्ये महादरः ॥ १८३ ॥ | "वापीकूपतडागादिकारणं च विशेषतः । यागे मत्रप्रयोगेण, मारणं पशुसंहतेः ॥ १८४ ॥ कियन्तो वा भणिष्यन्ते ?, भूतमर्दनहेतवः । | "रहिताः शुद्धभावेन, ये धर्माः केचिदीदृशाः ॥ १८५ ॥ सर्वेऽपि बलिनाऽनेन, मुग्धलोके प्रपञ्चतः । ते मिथ्यादर्शनाढेन, भद्र ! ज्ञेयाः | "प्रवर्तिताः ॥ १८६॥ पञ्चभिः कुलकम् ।। क्षान्तिमार्दवसन्तोषशौचार्जवविमुक्तयः । तपःसंयमसत्यानि, ब्रह्मचर्य शमो दमः ॥१८७॥ अ| "हिंसास्तेयसद्ध्यानवैराग्यगुरुभक्तयः । अप्रमादसदैकाग्र्यनैर्ग्रन्थ्यपरतादयः ॥ १८८॥ ये चान्ये चित्तनैर्मल्यकारिणोऽमृतसन्निभाः । सद्धर्मा "जगदानन्दहेतवो भवसेतवः ।। १८९ ॥ तेषामेष प्रकृत्यैव, महामोहमहत्तमः । भवेत्प्रच्छादनो लोके, मिथ्यादर्शननामकः ॥ १९० ॥ | "चतुर्भिः कलापकम् ॥ तथा-श्यामाकतण्डुलाकारस्तथा पञ्चधनुःशतः । एको नित्यस्तथा व्यापी, सर्वस्य जगतो विभुः॥१९१॥ क्षणस| "न्तानरूपो वा, ललाटस्थो हृदि स्थितः। आत्मेति ज्ञानमात्रं वा, शून्यं वा सचराचरम् ॥ १९२ ॥ पञ्चभूतविवर्तो वा, ब्रह्मोप्तमिति वाऽ"खिलम् । देवोप्तमिति वा ज्ञेयं, महेश्वरविनिर्मितम् ॥ १९३ ॥ प्रमाणबाधितं तत्त्वं, यदेवंविधमजसा । सद्बुद्धिं कुरुते तत्र, महामोहम"हत्तमः ॥१९४।। चतुर्भिः कलापकम् ॥ जीवाजीवौ तथा पुण्यपापसंवरनिर्जराः । आस्रवो बन्धमोक्षौ च, तत्त्वमेतन्नवात्मकम् ॥ १९५॥ 2R5RASARS ॥३६०॥ Jain Education For Private & Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy