SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. मिथ्यादर्श| नमहिमा ॥३६॥ | "क्लिष्टकर्मकलातीता, निष्कलाश्च महाधियः ॥ १७७ ॥ शान्तक्रोधा गताटोपा, हास्यत्रीहेतिवर्जिताः । आकाशनिर्मला धीरा, भगवन्तः "सदाशिवाः ॥ १७८ ॥ शापप्रसादनिर्मुक्तास्तथापि शिवहेतवः । त्रिकोटिशुद्धशास्त्रार्थदेशकाः परमेश्वराः ॥ १७९॥ ये पूज्याः सर्वदेवानां, "ये ध्येयाः सर्वयोगिनाम् । ये चाज्ञाकारणाराध्या, निर्द्वन्द्वफलदायिनः ॥ १८० ॥ ते मिथ्यादर्शनाख्येन, लोकेऽनेन स्ववीर्यतः । देवाः "प्रच्छादिता भद्र !, न ज्ञायन्ते विशेषतः ॥ १८१ ॥ पञ्चभिः कुलकम् । तथा-हिरण्यदानं गोदानं, धरादानं मुहुर्मुहुः । स्नानं पानं च "धूमस्य, पञ्चाग्नितपनं तथा ॥ १८२ ॥ तर्पणं चण्डिकादीनां, तीर्थान्तरनिपातनम् । यतेरेकगृहे पिण्डो, गीतवाद्ये महादरः ॥ १८३ ॥ | "वापीकूपतडागादिकारणं च विशेषतः । यागे मत्रप्रयोगेण, मारणं पशुसंहतेः ॥ १८४ ॥ कियन्तो वा भणिष्यन्ते ?, भूतमर्दनहेतवः । | "रहिताः शुद्धभावेन, ये धर्माः केचिदीदृशाः ॥ १८५ ॥ सर्वेऽपि बलिनाऽनेन, मुग्धलोके प्रपञ्चतः । ते मिथ्यादर्शनाढेन, भद्र ! ज्ञेयाः | "प्रवर्तिताः ॥ १८६॥ पञ्चभिः कुलकम् ।। क्षान्तिमार्दवसन्तोषशौचार्जवविमुक्तयः । तपःसंयमसत्यानि, ब्रह्मचर्य शमो दमः ॥१८७॥ अ| "हिंसास्तेयसद्ध्यानवैराग्यगुरुभक्तयः । अप्रमादसदैकाग्र्यनैर्ग्रन्थ्यपरतादयः ॥ १८८॥ ये चान्ये चित्तनैर्मल्यकारिणोऽमृतसन्निभाः । सद्धर्मा "जगदानन्दहेतवो भवसेतवः ।। १८९ ॥ तेषामेष प्रकृत्यैव, महामोहमहत्तमः । भवेत्प्रच्छादनो लोके, मिथ्यादर्शननामकः ॥ १९० ॥ | "चतुर्भिः कलापकम् ॥ तथा-श्यामाकतण्डुलाकारस्तथा पञ्चधनुःशतः । एको नित्यस्तथा व्यापी, सर्वस्य जगतो विभुः॥१९१॥ क्षणस| "न्तानरूपो वा, ललाटस्थो हृदि स्थितः। आत्मेति ज्ञानमात्रं वा, शून्यं वा सचराचरम् ॥ १९२ ॥ पञ्चभूतविवर्तो वा, ब्रह्मोप्तमिति वाऽ"खिलम् । देवोप्तमिति वा ज्ञेयं, महेश्वरविनिर्मितम् ॥ १९३ ॥ प्रमाणबाधितं तत्त्वं, यदेवंविधमजसा । सद्बुद्धिं कुरुते तत्र, महामोहम"हत्तमः ॥१९४।। चतुर्भिः कलापकम् ॥ जीवाजीवौ तथा पुण्यपापसंवरनिर्जराः । आस्रवो बन्धमोक्षौ च, तत्त्वमेतन्नवात्मकम् ॥ १९५॥ 2R5RASARS ॥३६०॥ Jain Education For Private & Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy