SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ उपमितौ च.४-प्र. ॥३५९॥ संसारिजीव एव ततः परम् ।। १५८ ॥ नरवानराजाय, यद्विचक्षणसूरिणा । निवेदितं प्रकर्षाय, विमर्शेन च धीमता ॥ १५९ ॥ । ततः संसारिजीवेन, प्रोक्तं विमललोचने!। निवेदयाम्यहं तत्ते, विमर्शेन यदीरितम् ॥१६०॥ ततः प्रोक्तं विमर्शन, भद्र ! ज्ञातो यदि त्वया।। महानद्यादिभावार्थस्ततोऽन्यत्किं निवेद्यताम् ? ॥ १६१ ॥ प्रकर्षः प्राह मे माम!, नामतो गुणतोऽधुना । महामोहनरेन्द्रस्य, परिवार निवेदय ।। १६२ ॥ या चेयं दृश्यते स्थूला, राजविष्टरसंस्थिता । एषा किनामिका ज्ञेया ?, किंगुणा वा वराङ्गना ? ॥ १६३ ॥ विमर्शः महामूढता प्राह नन्वेषा, प्रसिद्धा गुणगहरा । भो! महामूढता नाम, भार्याऽस्य पृथिवीपतेः ॥ १६४ ॥ चन्द्रिकेव निशानाथे, स्वप्रभेव दिवाकरे ।। प्रभाव: एषा देवी नरेन्द्रेऽस्मिन् , देहाभेदेन वर्तते ॥ १६५ ॥ अत एव गुणा येऽस्य, वर्णिता भद्र! भूपतेः । ज्ञेयास्त एव निःशेषास्त्वयाऽमुष्याल विशेषतः ॥ १६६ ॥ प्रकर्षः प्राह यद्येवं, ततोऽतिनिकटे स्थितः । महाराजाधिराजस्य, कृष्णवर्णः सुभीषणः ॥ १६७ ॥ निरीक्षमाणो| निःशेष, राजकं वक्रचक्षुषा । य एष दृश्यते सोऽयं, कतमो माम! भूपतिः ॥ १६८ ॥ विमर्शः प्राह विख्यातो, राज्यसर्वखनायकः। मिथ्यादर्शननामायं, महामोहमहत्तमः ॥ १६९ ॥ अनेन तत्रितं राज्यं, वहत्यस्य महीपतेः । बलसम्पादकोऽत्यर्थममीषामेष भू- मिथ्यादर्शभुजाम् ॥ १७० ।। अत्रैव संस्थितो भद्र!, निजवीर्येण देहिनाम् । यदेष बहिरङ्गाना, कुरुते तन्निबोध मे ॥ १७१ ॥ "अदेवे देवसङ्क- नमहिमा | "ल्पमधर्मे धर्ममानिताम् । अतत्त्वे तत्त्वबुद्धिं च, विधत्ते सुपरिस्फुटम् ।। १७२।। अपात्रे पात्रतारोपमगुणेषु गुणग्रहम् । संसारहेतौ निर्वा-18 | "णहेतुभावं करोत्ययम् ॥ १७३ ।। युग्मम् ॥ तथाहि हसितोद्गीतविब्बोकनाट्याटोपपरायणाः । हताः कटाक्षविक्षेपैर्नारीदेहार्धधारिणः | "|| १७४ ॥ कामान्धाः परदारेषु, सक्तचित्ताः क्षतत्रपाः। सक्रोधाः सायुधा घोरा, वैरिमारणतत्पराः।। १७५ ॥ शापप्रसादयोगेन, लस"च्चित्तमलाविलाः । ईदृशा भो! महादेवा, लोकेऽनेन प्रतिष्ठिताः ॥ १७६ ॥ त्रिभिर्विशेषकम् । ये वीतरागाः सर्वज्ञा, ये शाश्वतसुखेश्वराः ।। Jain Education a l For Private & Personel Use Only M w.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy