SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ कथोपनय: उपमितौ च. ४-प्र. ॥३५७॥ ROCOCCACK पाण्डित्यगर्विताः । ये नूनमीदृशा लोके, भोगभोजनवञ्चिताः ॥ १२१ ॥ ते मोहेन स्वयं नष्टाः, परानपि कृतोद्यमाः । नाशयन्ति हि- तं तेऽतो, वर्जनीया विजानता ॥ १२२ ॥ तथाहियो भोगरहितो मोक्षो, वञ्चनं तदुदाहृतम् । तदर्थ कस्त्यजेदृष्टमिदं भोगसुखामृतम् ? ॥ १२३ ॥ एवंविधविकल्पैश्च, गुरुवाक्यपराङ्मुखः । अभूतगुणसङ्घातं, तेषु भोगेषु मन्यते ॥ १२४ ॥ कथम् ?-स्थिरा ममैते शुद्धाश्च, सुखरूपाश्च तत्त्वतः । एतदात्मक एवाहमलमन्येन केनचित् ॥ १२५ ॥ आस्तामेष गृहीतेन, मोक्षेण प्रशमेन वा । अहं तु नेदृशैक्यैिरात्मानं वञ्चयामि भोः! ॥ १६ ॥ ततश्च-सद्धर्मावेदनव्याजागाढं पूत्कुर्वतोऽग्रतः । गुरोरपि प्रवर्तेत, प्रमादाशुचिकर्दमे ॥ १२७ ॥ सा सर्वेयमविद्याख्या, जीवस्यास्य वरानने ! । महामोहनरेन्द्रस्य, गात्रयष्टिविजृम्भते ॥ १२८ ॥ यथा स भोजनं भूयो, भक्षयित्वा पुनवमन् । संजातसन्निपातत्वात्पतितस्तत्र भूतले ।। १२९ ॥ लुठन्नितस्ततो गाढं, मुञ्चन्नाक्रन्दभैरवान् । अनाख्येयामचिन्त्यां च, प्राप्तोऽवस्था सुदारुणाम् ॥ १३० ॥ न त्रातः केनचिल्लोके, तदवस्थः स्थितः परम् । तथायमपि विज्ञेयो, जीवः सर्वाङ्गसुन्दरि! ॥ १३१ ॥ तथाहि यदा प्रमत्ततायुक्तस्तद्विलासपरायणः । विक्षिप्तचित्तस्तृष्णा”, विपर्यासवशं गतः ।। १३२ ॥ अविद्याऽन्धीकृतो जीवः, सक्तः संसारकर्दमे । आरोपितगुणत्रातस्तत्रैव विषयादिके ।। १३३ ॥ सर्वज्ञं धर्मसूरिं च, वारयन्तं मुहुर्मुहुः । सुवैद्यसन्निभं जीवो, विमूढमिति मन्यते ॥ १३४ ॥ त्रिभिर्विशेषकम् । ततश्च-पापोऽजीर्णज्वराक्रान्तः, स जीवो वान्तिसन्निभे । तं रटन्तमनालोच्यासत्प्रमादे प्रवर्तते ॥१३५॥ तदा निःशेषदोषौघभरपूरितमानसे । सन्निपातसमो घोरो, महामोहोऽस्य जम्भते ॥ १३६ ॥ युग्मम् । ततश्च तद्वशेनायं, जीवः सुन्दरलो|चने! । पश्यतामेव निश्चेष्टो, भवत्येव विवेकिनाम् ।। १३७ ।। मूत्राबाशुचिजाम्बालवसारुधिरपूरिते । निर्बोलं निपतत्येव, नरके वान्तिपिच्छले ॥ १३८ ॥ लुठतीतस्ततस्तत्र, मुञ्चन्नाक्रन्दभैरवान् । सहते तीब्रदुःखौघं, यद्वाचां गोचरातिगम् ।। १३९ ॥ तथा विचेष्टमान ॥ ३५७॥ C in Educator For Private & Personal Use Only M w.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy