________________
कथोपनयः
उपमितौ च. ४-प्र.
|समयज्ञेन, तद्दोषाश्च निवेदिताः ॥ १०२ ॥ स तु तत्र गुणारोपाद्भोजने बद्धमानसः । तं रटन्तमनालोच्य, भक्षणं कृतवानिति ॥१०३॥ तथाऽयमपि चावङ्गि! जीवः कर्ममलीमसः । भुक्तोत्सृष्टेषु भोगेषु, निर्लजः संप्रवर्तते ॥ १०४ ॥ परमाणुमया ह्येते, भोगाः शब्दादयो मताः । सर्वे चैकैकजीवेन गृहीताः परमाणवः ॥ १०५ ॥ गृहीत्वा मुक्तपूर्वाश्च, बहुशो भवकोटिषु । भुक्तवान्तास्ततः सत्यमेते शब्दादयोऽनघे ! ॥ १०६॥ यच्चास्य किञ्चिल्लोकेऽत्र, चित्ताबन्धविधायकम् । जीवस्य वस्तु सन्नेत्रे!, तत्सर्व पुद्गलात्मकम् ॥ १०७ ।। तथापि भद्रे! पापात्मा, पश्यतां विमलात्मनाम् । आबद्धचित्तस्तत्रैव, जम्बाले संप्रवर्तते ॥ १०८ ॥ कृपापरीतचित्ताश्च, भोगकर्दमलम्पटम् । तं जीवं वारयन्त्येते, धर्माचार्याः प्रयत्नतः ॥ १०९ ॥ कथम्?-अनन्तानन्दसवीर्यज्ञानदर्शनरूपकः । देवस्त्वं भद्र! नो युक्तमतो भोगेषु | वर्तनम् ॥ ११० ॥ अन्यच्चामी विवर्तन्ते, सर्वे भोगाः क्षणे क्षणे । अपरापररूपेण, तुच्छमास्थानिबन्धनम् ।। १११ ।। वान्ताशुचिसमा|श्चैते, वर्णितास्तत्त्वदर्शिभिः । भद्रः परमदेवोऽपि, नातोऽभून् भोक्तुमर्हति ॥ ११२ ॥ दुःखोपढौकिताश्चामी, दुःखरूपाश्च तत्त्वतः । दुःखस्य कारणं तेन, वर्जनीया मनीषिणा ॥ ११३ ॥ ये च बाह्याणुनिष्पन्नास्तुच्छा गाढमनात्मकाः । तेषु कः पण्डितो रागं, कुर्यादात्मस्वरूपवित् ? ॥ ११४ ॥ अतो ममोपरोधेन, भद्र ! भोगेषु कुत्रचित् । अन्येषु च प्रमादेषु, मा प्रवर्तिष्ट साम्प्रतम् ।। ११५ ॥ तदेवं पद्मपत्राक्षि!, निवारयति सद्गुरौ । प्रमादभोजने सक्तः, स जीवो हृदि मन्यते ॥ ११६ ॥ अहो विमूढः खल्वेष, वस्तुतत्त्वं न बुध्यते । आहादजनकानेष, यो भोगानपि निन्दति ॥ ११७ ॥ तथाहि-मद्यं वरस्त्रियो मांसं, गान्धर्व मृष्टभोजनम् । माल्यताम्बूलनेपथ्यविस्ताराः सुखमासनम् ॥ ११८ ॥ अलङ्काराः सुधाशुभ्रा, कीर्तिर्भुवनगामिनी । सद्रननिचयाः शूरं, चतुरङ्ग महाबलम् ॥ ११९ ॥ राज्यं | |प्रणतसामन्तं, यथेष्टाः सर्वसम्पदः । यद्येतदुःखहेतुस्ते, किमन्यत्सुखकारणम् ? ॥१२०॥ त्रिभिर्विशेषकम् । विप्रलब्धाः कुसिद्धान्तैः, शुष्क
P
॥३५६॥
Jain Education
For Private
Personal Use Only