SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ उपमितौ .४-प्र. ॥३५५॥ भोगानामेष वर्तते । तथापि जायते नास्य, स्तोकाऽपि विरतौ मतिः॥ ८३ ॥ ततश्च गाढलौल्येन, तथाभूतोऽपि सेवते । प्रमादवृन्दभो-2 कथोपनय: ज्यानि, वार्यमाणो विवेकिभिः ॥ ८४॥ शतप्राप्तौ सहनेच्छा, सहस्र लक्षरोचनम् । लक्षे कोटिगता बुद्धिः, कोटौ राज्यस्य वाञ्छनम् | ॥८५॥ राज्ये देवत्ववाञ्छाऽस्य, देवत्वे शक्रतामतिः । शक्रत्वेऽपि गतस्यास्य, नेच्छापूर्तिः कथञ्चन ।। ८६ ॥ सुपुत्रैर्वरयोषाभिः, सर्वकामैर्मुहुर्मुहुः । नास्याभिलाषविच्छित्तिः, कोटिशोऽपि निषेवितैः ।। ८७ ॥ संगृह्णाति ततो मूढः, सर्वार्थान सुखकाम्यया । ते तु दुःखाय जायन्ते, सज्वरस्येव भोजनम् ॥ ८८ ॥ जलज्वलनदायादचौरराजादि भिस्तथा । तस्यार्थभोजनस्योञ्चैबलाद्वान्तिर्विधाप्यते ॥ ८९ ॥ हृत्कलमलकं घोरं, वम्यमानः सहत्ययम् । आराटीर्मुञ्चति प्राज्याः, कृपाहेतुर्विवेकिनाम् ।। ९०॥ तदेषा चारुसर्वाङ्गि!, चित्तविक्षेपमण्डपे । जीवस्य विलसत्युच्चैस्तृष्णानाम्नी सुवेदिका ॥ ९१ ॥ यत्पुनश्चिन्तयत्येवं, तदा वेल्लहलः किल । वाताक्रान्तं शरीरं मे, ततोऽभूद्वमनं मम ॥ ९२ ॥ एतञ्च रिक्तकोष्ठत्वाद्वायुनाऽभिभविष्यते । अतः संप्राणयामीदं, भुजे भूयोऽपि भोजनम् ॥ ९३ ॥ जीवोऽपि चिन्तयत्येव, तदिदं तारवीक्षणे! । पापज्वरवशादुच्चैर्नष्टे विभवसञ्चये ॥ ९४ ।। मृतेषु च कलत्रेषु, पुत्रेषु स्वजनेषु च । अन्येषु च विनष्टेषु, चित्ताबन्धेषु मन्यते ॥ ९५ ॥ न मया चेष्टितं नीत्या, न कृतं चार पौरुषम् । नाश्रितो वा वरस्वामी, न कृता वा प्रतिक्रिया ॥ ९६ ॥ तेनेदं मम सर्वखं, पत्नी वा चारुदर्शना । पुत्रा वा बान्धवा वापि, विनष्टाः पश्यतोऽपि मे ।। ९७ ॥ न चैषां विरहे नूनं, वर्तेऽहं क्षणमप्यतः। उपार्जयामि भूयोऽपि, तान्येवोत्साहयोगतः ॥ ९८ ॥ उपार्जितानि सन्नीत्या, रक्षिष्यामि प्रयत्नतः । अजागलस्तनस्येव, जीवितव्यं वृथा|ऽन्यथा ॥ ९९ ॥ सर्वमस्य विजानीहि, तदिदं सुभ्र! भावतः । जीवस्यास्य विपर्यासनामविष्टरचेष्टितम् ॥ १०॥ यथा च भोक्तुमा- ॥३५५॥ रब्धः, स निर्लज्जतया पुनः । पश्यतः सर्वलोकस्य, वान्तिसंमिश्रभोजनम् ॥ १०१ ॥ ततः सपरिवारेण, तेन पूत्कुर्वता भृशम् । वारितः Jain Education in For Private & Personel Use Only Mjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy