SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ उपमिती 18॥ ६३ ॥ ततोऽलीकविकल्पैश्च, सुखनिर्भरमानसः। विलासलास्यसङ्गीतहास्यविब्बोकतत्परः ॥ ६४ ॥ युतो दुर्ललितैर्नित्यं, द्यूतमद्यरति-18 कथोपनया च. ४-प्र. प्रियः । सन्मार्गनगराद् दूरे, याति दौःशील्यकानने ॥ ६५ ॥ एतन्महाविमर्दैन, पुरनिर्गमनं मतम् । उद्यानप्रापणं चेदं, विद्धि नीला ब्जलोचने! ॥ ६६ ॥ स मिथ्याभिनिवेशाख्ये, स्थितो विस्तीर्णविष्टरे । कर्माख्यपरिवारेण, रचितानि ततोऽप्रतः ॥ ६७ ॥ मनोहराणि ॥३५४॥ चित्राणि, लब्धास्वादो विशेषतः । प्रमादवृन्दभोज्यानि, सुन्दरत्वेन मन्यते ॥ ६८ ।। युग्मम् ॥ प्रमत्ततामहानद्याः, पुलिनं पद्मलोचने। तत्तद्विलसितं विद्धि, वृत्तान्तस्यास्य कारणम् ।। ६९ ॥ ततो यथाऽन्नलेशेन, भक्षितेन तनुज्वरः । बायुस्पर्शादिभिश्चोच्चैर्वर्धितस्तस्य दारुणः ॥ ७० ॥ लक्षितश्च सुवैद्यन, वारितश्च सुभोजनात् । न चासौ बुध्यते किंचिद्भोजनाक्षिप्तमानसः॥ ७१ ॥ जीवस्यापि तथा भद्रे !, कर्मा-12 जीर्णोद्भवो ज्वरः । प्रमादात्तेन वर्धेत, तथैवाज्ञानवायुना ॥ ७२ ।। लक्षयन्ति च तं वृद्धं, धर्माचार्या महाधियः । समयज्ञमहावैद्या, वारयन्ति च देहिनम् ॥ ७३ ॥ चतुर्भिः कलापकं । कथम् !-अनादिभवकान्तारे, भ्रान्त्वा भद्रातिसुन्दरम् । अवाप्य मानुषं जन्म, महाराज्यमिवातुलम् ।।७४॥ कर्माजीर्णज्वराक्रान्तं, प्रमादमधुनाऽपि भोः! । मा सेवस्व महामोहसन्निपातस्य कारणम् ।।७५ ॥ कुरुष्व ज्ञानचारित्रसम्यग्दर्शनलक्षणाम् । चित्तज्वरविघाताय, जैनी भद्र! प्रतिक्रियाम् ॥७६॥ स तु प्रमादभोज्येषु, क्षिप्तचित्तो न बुध्यते । तत्तादृशं गुरोर्वाक्यं, |पापो जीवः प्रपच्चितम् ।। ७७ ॥ ततश्च-उन्मत्त इव मत्त इव, ग्राहग्रस्त इवातुरः । गाढसुप्त इवोद्धान्तो, विपरीतं विचेष्टते ॥ ७८ ॥ स एष भद्रे! सर्वोऽपि, चित्तविक्षेपमण्डपः । महानदीकूलसंस्थो, जीवस्यास्य विजृम्भते ।। ७९ ॥ यथा च राजपुत्रेण, भोजनं चारुलोचने । अगच्छदपि कण्ठेन, गमितं लौल्यदोषतः ॥ ८० ॥ तदनन्तरमेवोच्चैर्वान्तं तत्रैव भोजने । जीवस्यापि विजानीहि, समानमिदमजसा 8॥३५४॥ ॥ ८१ ॥ तथाहि कर्माजीर्णज्वरप्रस्तः, सदा विह्वलमानसः । जराजीर्णतनुक्षामो, रोगार्दितशरीरकः ।। ८२ ॥ सर्वेषामक्षमो भोगे, Jain Educatio n al For Private & Personel Use Only Newww.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy