SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ उपमिती 18॥ ६३ ॥ ततोऽलीकविकल्पैश्च, सुखनिर्भरमानसः। विलासलास्यसङ्गीतहास्यविब्बोकतत्परः ॥ ६४ ॥ युतो दुर्ललितैर्नित्यं, द्यूतमद्यरति-18 कथोपनया च. ४-प्र. प्रियः । सन्मार्गनगराद् दूरे, याति दौःशील्यकानने ॥ ६५ ॥ एतन्महाविमर्दैन, पुरनिर्गमनं मतम् । उद्यानप्रापणं चेदं, विद्धि नीला ब्जलोचने! ॥ ६६ ॥ स मिथ्याभिनिवेशाख्ये, स्थितो विस्तीर्णविष्टरे । कर्माख्यपरिवारेण, रचितानि ततोऽप्रतः ॥ ६७ ॥ मनोहराणि ॥३५४॥ चित्राणि, लब्धास्वादो विशेषतः । प्रमादवृन्दभोज्यानि, सुन्दरत्वेन मन्यते ॥ ६८ ।। युग्मम् ॥ प्रमत्ततामहानद्याः, पुलिनं पद्मलोचने। तत्तद्विलसितं विद्धि, वृत्तान्तस्यास्य कारणम् ।। ६९ ॥ ततो यथाऽन्नलेशेन, भक्षितेन तनुज्वरः । बायुस्पर्शादिभिश्चोच्चैर्वर्धितस्तस्य दारुणः ॥ ७० ॥ लक्षितश्च सुवैद्यन, वारितश्च सुभोजनात् । न चासौ बुध्यते किंचिद्भोजनाक्षिप्तमानसः॥ ७१ ॥ जीवस्यापि तथा भद्रे !, कर्मा-12 जीर्णोद्भवो ज्वरः । प्रमादात्तेन वर्धेत, तथैवाज्ञानवायुना ॥ ७२ ।। लक्षयन्ति च तं वृद्धं, धर्माचार्या महाधियः । समयज्ञमहावैद्या, वारयन्ति च देहिनम् ॥ ७३ ॥ चतुर्भिः कलापकं । कथम् !-अनादिभवकान्तारे, भ्रान्त्वा भद्रातिसुन्दरम् । अवाप्य मानुषं जन्म, महाराज्यमिवातुलम् ।।७४॥ कर्माजीर्णज्वराक्रान्तं, प्रमादमधुनाऽपि भोः! । मा सेवस्व महामोहसन्निपातस्य कारणम् ।।७५ ॥ कुरुष्व ज्ञानचारित्रसम्यग्दर्शनलक्षणाम् । चित्तज्वरविघाताय, जैनी भद्र! प्रतिक्रियाम् ॥७६॥ स तु प्रमादभोज्येषु, क्षिप्तचित्तो न बुध्यते । तत्तादृशं गुरोर्वाक्यं, |पापो जीवः प्रपच्चितम् ।। ७७ ॥ ततश्च-उन्मत्त इव मत्त इव, ग्राहग्रस्त इवातुरः । गाढसुप्त इवोद्धान्तो, विपरीतं विचेष्टते ॥ ७८ ॥ स एष भद्रे! सर्वोऽपि, चित्तविक्षेपमण्डपः । महानदीकूलसंस्थो, जीवस्यास्य विजृम्भते ।। ७९ ॥ यथा च राजपुत्रेण, भोजनं चारुलोचने । अगच्छदपि कण्ठेन, गमितं लौल्यदोषतः ॥ ८० ॥ तदनन्तरमेवोच्चैर्वान्तं तत्रैव भोजने । जीवस्यापि विजानीहि, समानमिदमजसा 8॥३५४॥ ॥ ८१ ॥ तथाहि कर्माजीर्णज्वरप्रस्तः, सदा विह्वलमानसः । जराजीर्णतनुक्षामो, रोगार्दितशरीरकः ।। ८२ ॥ सर्वेषामक्षमो भोगे, Jain Educatio n al For Private & Personel Use Only Newww.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy