SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ कथोपनय: उपमिती च. ४-प्र. FASE ॥३५३॥ ॥ ४४ ॥ तथाहि-मनुष्यभावमापन्नः, कर्माजीर्ण सुदारुणम् । रागादिकोपनं मूढश्चित्तज्वरविधायकम् ॥ ४५ ॥ जीवो न लक्षयत्येष, | ततश्चास्य प्रवर्तते । अहितेषु सदा बुद्धिः, प्रकाशं सुखकाम्यया ॥ ४६ ॥ तथाहि स्वदते मद्यं, निद्राऽत्यन्तं सुखायते । विकथा प्रतिभात्युच्चैरस्यानेकविकल्पना ॥ ४७ ॥ इष्टः क्रोधः प्रियो मानो, माया चात्यन्तवल्लभा । लोभः प्राणसमो मन्ये, रागद्वेषौ मनोगतौ ॥४८॥ कान्तः स्पर्शो रसोऽभीष्टः, कामं गन्धश्च सुन्दरः । अत्यन्तदयितं रूपं, रोचते च कलध्वनिः ॥ ४९ ॥ विलेपनानि ताम्बूलमलङ्काराः सुभोजनम् । माल्यं वरस्त्रियो वस्त्रं, सुन्दरं प्रतिभासते ॥ ५० ॥ आसनं ललितं यानं, शयनं द्रव्यसञ्चयाः । अलीककीर्तिश्च जने, रुचिताऽस्य दुरात्मनः ॥ ५१ ॥ चित्तवृत्तिमहाटव्यां, भद्रे! सततवाहिनी । महानदी वहत्युच्चैः, सेयमस्य प्रमत्तता ॥ ५२ ॥ यथा च तद्वस्थस्य, राजपुत्रस्य सुन्दरि !। समुत्पन्ना विलासेच्छा, यातुमुद्यानिकां मतिः(प्रति) ॥५३॥ कारितानि च भोज्यानि, लौल्येन प्राशितानि | च । निर्गतश्च विलासेन, पुरात्प्राप्तश्च कानने ॥ ५४ ॥ निविष्टमासनं दिव्यमुपविष्टश्च तत्र सः । विस्तारितं पुरो भक्तं, नानाखाद्यकसंयुतम् ॥ ५५ ॥ तथास्यापि प्रमत्तस्य, जीवस्य वरलोचने! । कर्माजीर्णात्समुत्पन्ने, भीषणेऽपि मनोज्वरे ॥ ५६ ॥ जायन्ते चित्तकल्लोला, नानारूपाः क्षणे क्षणे । यथोपायं धनं भूरि, विलसामि यथेच्छया ।। ५७ ॥ करोम्यन्तःपुरं दिव्यं, भुखे राज्यं मनोहरम् । महाप्रासादसङ्घातं, कारये काननानि च ॥ ५८ ॥ षभिः कुलकम् ।। ततश्च-महाविभवसंपन्नः, क्षपिताखिलवैरिकः । श्लाघितः सर्वलोकेन, पूरितार्थमनोरथः ॥ ५९ ॥ शब्दादिसुखसन्दोहसागरे मनमानसः । तिष्ठामि सततानन्दो, नान्यन्मानुष्यके फलम् ॥ ६० ॥ सेयमुद्यानिकाकाङ्क्षा, विज्ञेया सुन्दरि! त्वया । ततो जीवो महारम्भैः, कुरुते द्रव्यसञ्चयम् ॥ ६१ ॥ यथेष्टं दैवयोगेन, विधत्तेऽन्तःपुरादिकम् । शब्दादिसुखलेशं च, किंचिदास्वादयेदपि ।। ६२ ।। अस्य जीवस्य जानीहि, तदिदं मृगवीक्षणे! । कारणं मृष्टभोज्यानां, तल्लवानां च भक्षणम् * ** Jain Educaton International For Private & Personel Use Only Www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy