SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ 564 कथोपवय: उपमिती च.४-प्र. ॥३५२॥ जशीलक(त)या स्फुटम् ।।२५।। अथ प्रज्ञाविशालाऽऽह, कामं भोः कथयामि ते । भद्रेऽगृहीतसङ्केते!, समाकर्णय साम्प्रतम् ॥ २६ ॥ यस्ते ४ वेल्लहलो नाम, राजपुत्रो निदर्शितः । एषोऽनेन विशालाक्षि!, प्रोक्तो जीवः सकर्मकः ॥ २७ ॥ स एव जायते भद्रे !, नगरे भवनोदरे ।। अनादिसंस्थितिसुतः, स एव परमार्थतः ।। २८ ॥ स एवानन्तरूपत्वाद्वहिरङ्गजनः स्मृतः । सामान्यरूपमुद्दिश्य, स चैकः परिकीर्तितः ॥ २९ ॥ मनुष्यभावमापन्नः, स प्रभुः सर्वकर्मणाम् । महाराजसुतस्तेन, स प्रोक्तोऽनेन सुन्दरि ! ॥ ३०॥ तस्यैव सत्का विज्ञेया, चित्त|वृत्तिर्महाटवी । सुन्दरेतरवस्तूनां, सा तस्यैव च कारणम् ।। ३१ ।। केवलं यावदद्यापि, स आत्मानं न बुध्यते । महामोहादिभिस्तावल्लुप्यते सा महाटवी ॥ ३२ ॥ यदा तु तेन विज्ञातः, स स्यादात्मा कथञ्चन । तद्वीर्य वीक्ष्य नश्यन्ति, महामोहादयस्तदा ॥ ३३ ॥ यावच्च ते विवर्तन्ते, चित्तवृत्तौ महाभटाः । महानद्यादिवस्तूनि, तावत्तस्यां भवन्ति वै ॥ ३४ ॥ तेषामेव यतस्तानि, क्रीडास्थानानि भूभुजाम् । |अतस्तेषु विनष्टेषु, तेषां नाशः प्रकीर्तितः ॥ ३५ ॥ एवं च स्थिते-अविज्ञातात्मरूपस्य, भद्रे! जीवस्य कर्मणा । महामोहनरेन्द्रे च, सप्रतापेऽटवीस्थिते ॥ ३६ ॥ यदा तानि विवर्धन्ते, जीवश्च बहु मन्यते । महानद्यादिवस्तूनि, नितरामात्मवैरिकः ।। ३७ ॥ तदा तानि स्ववीर्येण, यत्कुर्वन्ति पृथक् पृथक् । जीवस्य तद्विशेषार्थ, दृष्टान्तोऽयं निवेदितः ॥ ३८ ॥ युग्मम् । स चैवं योज्यते भद्रे!, प्रस्तुतार्थेन प|ण्डितैः । महानद्यादिवस्तूनां, प्रत्येकं भेदसिद्धये ॥ ३९ ॥ यथाऽऽहारप्रियो नित्यं, राजपुत्रो निवेदितः । तथाऽयमपि विज्ञेयो, जीवो | विषयलम्पटः ॥ ४० ॥ यथा च तस्य संजातमजीर्ण भूरिभक्षणात् । तथाऽस्यापि कुरङ्गाक्षि!, कर्माजीणे प्रचक्षते ॥४१॥ पापाज्ञानात्मकं तच्च, वर्तते कर्म दारुणम् । यतः प्रमत्ततोद्भूता, तज्जन्यं तत्पुर(पुलिन)द्वयम् ॥ ४२ ॥ यथा प्रकुपितास्तस्य, दोषा जातस्तनुज्वरः । तथा रागादयोऽस्यापि, वर्धन्ते ज्वरहेतवः ॥ ४३ ॥ यथा तथास्थितस्यापि, बुद्धि ज्येषु धावति । नरेन्द्रदारकस्येह, तथाऽस्यापि दुरात्मनः ॥३५२॥ Jain Education a l For Private & Personel Use Only R ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy