________________
उपमिती च. ४-प्र.
वेल्लहल६ कुमारकथा
शौचदूषणम् । उद्वेगहेतु! भक्तं, देवः खादितुमर्हति ॥ ६॥ देव! दुःखात्मकं चेदं, सर्वव्याधिप्रकोपनम् । गाढमुल्वणदोषाणां, विशेषेण भवादृशाम् ॥ ७ ॥ का वाऽस्योपरि ते मूर्छा ?, यद्वाह्यं पुद्गलात्मकम् । अतो देव! विहायेदमात्मानं रक्ष यत्नतः ॥ ८॥ इत्थं च समयज्ञस्य, रटतोऽपि वचस्तदा । स राजपुत्रः श्रुत्वाऽपि, खचित्ते पर्यचिन्तयत् ॥ ९॥ अहो विमूढः खल्वेष, समयज्ञो न बुध्यते । नूनं मदीयप्रकृति, नावस्थां न हिताहितम् ॥ १०॥ यो वातलं क्षुधाक्षामं, भुञ्जानं मां निषेधति । एतच दूषयत्येष, भोजनं देवदुर्लभम् ॥ ११ ॥ तत्किमेतेन मूर्खेण?, भुखे भोज्यं यथेच्छया । स्वार्थसिद्धिर्मया कार्या, किं ममापरचिन्तया? ॥ १२ ॥ ततः परिजनेनोः, सहितेऽपि पुनः पुनः। समयज्ञे रटत्येवं, भक्षितं तेन भोजनम् ।। १३ ।। ततः प्रबलदोषोऽसौ, भक्षणानन्तरं तदा । सन्निपातं महाघोरं, संप्राप्तो निजकर्मणा ॥ १४ ॥ पुनर्वमनबीभत्से, ततस्तत्रैव भूतले । पश्यतां पतितस्तेषां, काष्ठवन्नष्टचेतनः ॥ १५॥ स लोलमानस्तत्रैव, जघन्ये वान्तिकर्दमे । कुर्वन् घुरघुरारावं, श्लेष्मापूर्णगलस्तदा ॥ १६ ॥ अनाख्येयामचिन्त्यां च, तेषामुद्वेगकारिणीम् । अशक्यप्रतिकारांच, प्राप्तोऽवस्थां सुदारुणाम् ॥ १७॥ न शक्यः समयज्ञेन, त्रातुमेष न बान्धवैः । तदवस्थो न राज्येन, न देवैर्नापि दानवैः ॥ १८ ॥ केवलं तदवस्थेन, लुठताऽशुचिकर्दमे । अनन्तकालं तत्रैव, स्थातव्यं तेन पापिना ॥ १९ ॥ तदेष भद्रे! दृष्टान्तः, प्रस्तुतानां परिस्फुटः । वस्तूनां भेदसिद्ध्यर्थ, मया तुभ्यं निवेदितः ॥ २० ।। ततोऽगृहीतसङ्केता, प्राह विह्वलमानसा । संसारिजीव ! नैवेदं, पौर्वापर्येण युज्यते ॥ २१ ॥ यतः-नद्यादिवस्तुभेदार्थ, कथितं मे कथानकम् । त्वयेदं तत्र मे भाति, कोष्ठो नीराजना क च ॥ २२ ॥ अथास्ति कश्चित्सम्बन्धो, हन्त प्रस्तुतवस्तुनि । स्फुटः कथानकस्यास्य, स इदानीं निवेद्यताम् ॥ २३ ॥ ततः संसारिजीवेन, तद्दार्टान्तिकयोजने बहुभाषणखिन्नेन, तत्सखी संप्रचोदिता ॥ २४ ॥ कथम्? -अस्याः प्रज्ञाविशाले! त्वं, निःशेष मत्कथानकम् । घटय प्रस्तुतार्थेन, नि
॥३५१॥
Jain Education
a
l
For Private & Personel Use Only
MM.jainelibrary.org