SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ उपमिती च. ४-प्र. वेल्लहल६ कुमारकथा शौचदूषणम् । उद्वेगहेतु! भक्तं, देवः खादितुमर्हति ॥ ६॥ देव! दुःखात्मकं चेदं, सर्वव्याधिप्रकोपनम् । गाढमुल्वणदोषाणां, विशेषेण भवादृशाम् ॥ ७ ॥ का वाऽस्योपरि ते मूर्छा ?, यद्वाह्यं पुद्गलात्मकम् । अतो देव! विहायेदमात्मानं रक्ष यत्नतः ॥ ८॥ इत्थं च समयज्ञस्य, रटतोऽपि वचस्तदा । स राजपुत्रः श्रुत्वाऽपि, खचित्ते पर्यचिन्तयत् ॥ ९॥ अहो विमूढः खल्वेष, समयज्ञो न बुध्यते । नूनं मदीयप्रकृति, नावस्थां न हिताहितम् ॥ १०॥ यो वातलं क्षुधाक्षामं, भुञ्जानं मां निषेधति । एतच दूषयत्येष, भोजनं देवदुर्लभम् ॥ ११ ॥ तत्किमेतेन मूर्खेण?, भुखे भोज्यं यथेच्छया । स्वार्थसिद्धिर्मया कार्या, किं ममापरचिन्तया? ॥ १२ ॥ ततः परिजनेनोः, सहितेऽपि पुनः पुनः। समयज्ञे रटत्येवं, भक्षितं तेन भोजनम् ।। १३ ।। ततः प्रबलदोषोऽसौ, भक्षणानन्तरं तदा । सन्निपातं महाघोरं, संप्राप्तो निजकर्मणा ॥ १४ ॥ पुनर्वमनबीभत्से, ततस्तत्रैव भूतले । पश्यतां पतितस्तेषां, काष्ठवन्नष्टचेतनः ॥ १५॥ स लोलमानस्तत्रैव, जघन्ये वान्तिकर्दमे । कुर्वन् घुरघुरारावं, श्लेष्मापूर्णगलस्तदा ॥ १६ ॥ अनाख्येयामचिन्त्यां च, तेषामुद्वेगकारिणीम् । अशक्यप्रतिकारांच, प्राप्तोऽवस्थां सुदारुणाम् ॥ १७॥ न शक्यः समयज्ञेन, त्रातुमेष न बान्धवैः । तदवस्थो न राज्येन, न देवैर्नापि दानवैः ॥ १८ ॥ केवलं तदवस्थेन, लुठताऽशुचिकर्दमे । अनन्तकालं तत्रैव, स्थातव्यं तेन पापिना ॥ १९ ॥ तदेष भद्रे! दृष्टान्तः, प्रस्तुतानां परिस्फुटः । वस्तूनां भेदसिद्ध्यर्थ, मया तुभ्यं निवेदितः ॥ २० ।। ततोऽगृहीतसङ्केता, प्राह विह्वलमानसा । संसारिजीव ! नैवेदं, पौर्वापर्येण युज्यते ॥ २१ ॥ यतः-नद्यादिवस्तुभेदार्थ, कथितं मे कथानकम् । त्वयेदं तत्र मे भाति, कोष्ठो नीराजना क च ॥ २२ ॥ अथास्ति कश्चित्सम्बन्धो, हन्त प्रस्तुतवस्तुनि । स्फुटः कथानकस्यास्य, स इदानीं निवेद्यताम् ॥ २३ ॥ ततः संसारिजीवेन, तद्दार्टान्तिकयोजने बहुभाषणखिन्नेन, तत्सखी संप्रचोदिता ॥ २४ ॥ कथम्? -अस्याः प्रज्ञाविशाले! त्वं, निःशेष मत्कथानकम् । घटय प्रस्तुतार्थेन, नि ॥३५१॥ Jain Education a l For Private & Personel Use Only MM.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy