________________
वेल्लहलकुमारकथा
प्राप्तो मनोरमे कामचे, निविष्टं सुखमासनं, तत्र चोपविष्टस विरचिताः पुरतो विविधाहारविस्ताराः, ततश्चाहारलेशभक्षणेन पवनस्पर्शा8 दिना गाढतरं प्रवृद्धो ज्वरः, लक्षितश्च पार्श्ववर्तिना समयज्ञाभिधानेन महावैद्यसुतेन, यदुत-आतुरवदनो दृश्यते कुमारः, ततो दत्तस्तेन
शङ्खयोहस्तः, निरूपितानि सन्धिस्थानानि, निश्चितमनेन यथा-ज्वरितः खल्वयं कुमारः, ततोऽभिहितं समयज्ञेन-देव! न युक्तं तव भोक्तुं प्रबलज्वरं ते शरीरं वर्तते, यतोऽत्यन्तमातुरा घूर्णते दृष्टिः आताम्रस्निग्धं वदनकमलं द्रगद्रगायेते शङ्खौ धमधमायन्ते सन्धिस्थानानि ज्वलतीव बहिस्त्वम् दहतीव हस्तं, ततो निवर्तख भोजनात् गच्छ प्रच्छन्नापवरके भजख निवातं कुरुष्व लङ्घनानि पिब कथितमुदकं समाचर विधिनाऽस्य सर्वां प्रतिक्रियाम् , इतरथा सन्निपातस्ते भविष्यति, स तु वेल्लहलो दत्तदृष्टिः पुरतो विन्यस्ते तस्मिन्नाहारविस्तारे एतदेतच्च भक्षयामीति भ्रमयन्नपरापरेषु खाद्यप्रकारेषु स्वीयमन्तःकरणं नाकर्णयति तत्तदा वैद्यसुतभाषितं नाकलयति तस्य हितरूपता न चेतयते तं वारणार्थ लगन्तमपि शरीरे, ततो वारयतो वचनेन धारयतो हस्तेन तस्य समयज्ञस्य समक्षमेव बलात्प्रवृत्तो भक्षयितुमाहारं वेल्लहलः, ततः समुत्कटतयाऽजीर्णस्य प्रबलतया ज्वरस्य न क्रमतेऽसौ गलकेनाहारः तथापि बलादेव क्रामितः कियानपि वेल्लहलेन, ततः समुद्वृत्तं हृदयं संजातः कलमलकः संपन्नं वमनं विमिश्रितं च तेन वमनेन सर्वमपि पुरतो विन्यस्तं भोजनं, ततश्चिन्तितं
वेल्लहलेन-क्षुधाक्षामं शरीरं मे, नूनमूनतया भृशम् । एतद्धि वायुनाऽऽक्रान्तमन्यथा वमनं कुतः ॥ १॥ एवं स्थिते-रिक्तकोष्ठं शरीरं & मे, वाताक्रान्तं विनयति । ततश्च प्रीणयामीदं, भुजे भूयोऽपि भोजनम् ॥२॥ ततोऽसौ वान्तिसंमिश्र, तत् पुरःस्थितभोजनम् । निर्लज्जो
|भोक्तुमारब्धः, सर्वेषामपि पश्यताम् ॥ ३॥ तदृष्ट्वा समयज्ञेन, प्रोक्तः पूत्कुर्वता भृशम् । देव देव! न युक्तं ते, कर्तु काकस्य चेष्टितम् ६॥४॥ मा च राज्यं शरीरं च, यशश्च शशिनिर्मलम् । देव! हारय भक्तेन, त्वमेकदिनभाविना ॥५॥ अन्यच्चेदं सतां निन्द्यममेध्यं
॥ ३५॥
Jain Educatio
n
al
For Private & Personel Use Only
www.jainelibrary.org