SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ उपमितौ च.४-प्र. ॥३४९॥ नदीपुलिनमहामण्डपवेदिकासिंहासनगात्रयष्टिनरेन्द्ररूपाणि वस्तूनि यानि भवता प्रमत्ततातद्विलसितचित्तविक्षेपतृष्णाविपर्यासाविद्यामहा-14 मोहाभिधानानि निवेदितानि तानि मया भावार्थमधिकृत्य न सम्यग्विज्ञातानि, विकल्पितानि मया यथा नाम्ना परमेतानि भिद्यन्ते नार्थेन, यतः सर्वाण्यपि पुष्टिकारणतयाऽमीषामन्तरङ्गलोकानामनर्थकारणतया च बहिरङ्गजनानां समानानि वर्तन्ते ततो यद्येतेषामस्ति कश्चिदर्थेन भेदस्तं मे निवेदयतु मामः, विमर्शः प्राह ननु निवेदित एव प्रत्येकमेतेषां गुणान् वर्णयता मया परिस्फुटोऽर्थभेदः तथापि स यदि न विज्ञातो भद्रेण ततः पुनरपि निवेदयामि । ततः कथितो विमर्शेन महानद्यादीनां वस्तूनां प्रत्येकं भावार्थः, बुद्धः प्रकर्षेण ॥ अत्रान्तरे नरवाहनः प्राह-भदन्त ! वयमपि बोधनीयास्तेषां भावार्थ, ततः प्रबोधितो नरवाहननरेन्द्रोऽपि तेन भगवता विचक्षणसू|रिणा । ततोऽगृहीतसङ्केतयाऽभिहितं-भद्र! संसारिजीव तर्हि यद्येवं ततोऽहमपीदानीं तेषां महानद्यादिवस्तूनां बोधनीया भवताऽर्थभेदं, संसारिजीवेनोक्तं भद्रे ! स्पष्टदृष्टान्तमन्तरेण न त्वया सुखावसेयमेतेषां प्रविभक्तं स्वरूपं, अतो दृष्टान्तं कथयिष्ये, अगृहीतसङ्केतयोक्तं -अनुग्रहो मे, संसारिजीवेनाभिहितं-अस्ति संभावितसमस्तवृत्तान्तं भवनोदरं नाम नगरं, तत्र च निवारको हरिहरहिरण्यगर्भादी वेल्लहलनामपि प्रभुशक्तेरनादिर्नाम राजा, तस्य च नीतिमार्गनिपुणाऽविच्छेदकारिणी कुयुक्तिमिथ्याविकल्पजल्पानां संस्थिति म महादेवी, तयो- कुमारकथा & श्चात्यन्तवल्लभोऽस्ति वेलहलो नाम तनयः, स च गाढमाहारप्रियो दिवानिशमनवरतं विविधखाद्यपेयानि भक्षयन्नास्ते, ततः संजातं महा जीर्ण, प्रकुपिता दोषाः, संपन्नोऽन्तर्लीनो ज्वरः, तथापि न विच्छिद्यते तस्याहाराभिलाषः, प्रवृत्ता चोद्यानिकागमनेच्छा, ततः कारिता | भूरिप्रकारा भक्ष्यविशेषाः, तांश्च पश्यतस्तस्य एनमेनं च भक्षयिष्यामीति प्रवर्तन्ते चित्तकल्लोलाः, लौल्यातिरेकेण च भक्षितं सर्वेषामाहा-गा।३४९॥ रविशेषाणां स्तोकस्तोक, ततः परिवेष्टितो मित्रवृन्देन परिकरितोऽन्तःपुरेण पठता बन्दिवृन्देन दद्दानं विविधैर्विलासैर्महता विमर्दैन उ.भ.३० Jain Education anal For Private & Personel Use Only Jab.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy