SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ उपमितौ च.४-प्र. ॥३४९॥ नदीपुलिनमहामण्डपवेदिकासिंहासनगात्रयष्टिनरेन्द्ररूपाणि वस्तूनि यानि भवता प्रमत्ततातद्विलसितचित्तविक्षेपतृष्णाविपर्यासाविद्यामहा-14 मोहाभिधानानि निवेदितानि तानि मया भावार्थमधिकृत्य न सम्यग्विज्ञातानि, विकल्पितानि मया यथा नाम्ना परमेतानि भिद्यन्ते नार्थेन, यतः सर्वाण्यपि पुष्टिकारणतयाऽमीषामन्तरङ्गलोकानामनर्थकारणतया च बहिरङ्गजनानां समानानि वर्तन्ते ततो यद्येतेषामस्ति कश्चिदर्थेन भेदस्तं मे निवेदयतु मामः, विमर्शः प्राह ननु निवेदित एव प्रत्येकमेतेषां गुणान् वर्णयता मया परिस्फुटोऽर्थभेदः तथापि स यदि न विज्ञातो भद्रेण ततः पुनरपि निवेदयामि । ततः कथितो विमर्शेन महानद्यादीनां वस्तूनां प्रत्येकं भावार्थः, बुद्धः प्रकर्षेण ॥ अत्रान्तरे नरवाहनः प्राह-भदन्त ! वयमपि बोधनीयास्तेषां भावार्थ, ततः प्रबोधितो नरवाहननरेन्द्रोऽपि तेन भगवता विचक्षणसू|रिणा । ततोऽगृहीतसङ्केतयाऽभिहितं-भद्र! संसारिजीव तर्हि यद्येवं ततोऽहमपीदानीं तेषां महानद्यादिवस्तूनां बोधनीया भवताऽर्थभेदं, संसारिजीवेनोक्तं भद्रे ! स्पष्टदृष्टान्तमन्तरेण न त्वया सुखावसेयमेतेषां प्रविभक्तं स्वरूपं, अतो दृष्टान्तं कथयिष्ये, अगृहीतसङ्केतयोक्तं -अनुग्रहो मे, संसारिजीवेनाभिहितं-अस्ति संभावितसमस्तवृत्तान्तं भवनोदरं नाम नगरं, तत्र च निवारको हरिहरहिरण्यगर्भादी वेल्लहलनामपि प्रभुशक्तेरनादिर्नाम राजा, तस्य च नीतिमार्गनिपुणाऽविच्छेदकारिणी कुयुक्तिमिथ्याविकल्पजल्पानां संस्थिति म महादेवी, तयो- कुमारकथा & श्चात्यन्तवल्लभोऽस्ति वेलहलो नाम तनयः, स च गाढमाहारप्रियो दिवानिशमनवरतं विविधखाद्यपेयानि भक्षयन्नास्ते, ततः संजातं महा जीर्ण, प्रकुपिता दोषाः, संपन्नोऽन्तर्लीनो ज्वरः, तथापि न विच्छिद्यते तस्याहाराभिलाषः, प्रवृत्ता चोद्यानिकागमनेच्छा, ततः कारिता | भूरिप्रकारा भक्ष्यविशेषाः, तांश्च पश्यतस्तस्य एनमेनं च भक्षयिष्यामीति प्रवर्तन्ते चित्तकल्लोलाः, लौल्यातिरेकेण च भक्षितं सर्वेषामाहा-गा।३४९॥ रविशेषाणां स्तोकस्तोक, ततः परिवेष्टितो मित्रवृन्देन परिकरितोऽन्तःपुरेण पठता बन्दिवृन्देन दद्दानं विविधैर्विलासैर्महता विमर्दैन उ.भ.३० Jain Education anal For Private & Personel Use Only Jab.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy