SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. भौतकथानिका ॥३४८॥ कर प्येष पापः, ततो विहितः सदाशिवेन म्रियमाणेन महाक्रन्दभैरवः शब्दः, ततो लग्ना वारणार्थ हाहारवं कुर्वन्तः शान्तिशिवस्य माहेश्वराः, शान्तिशिवः प्राह-मारणीयो मयाऽयं दुरात्मा, यो ममैवं कुर्वतोऽपि न शृणोति, अपसरतापसरत यूयमितरथा युष्माकमपीयमेव वार्तेति, तथापि वारयतो माहेश्वरानपि प्रवृत्तस्ताडयितुमसौ लकुटेन, ततो बहुत्वात्तेषां रे लात लातेति ब्रुवाणैरुद्दालि(तैः)स्तेन तस्य हस्ताल्लकुटः, चिन्तितं च-नूनं ग्रहगृहीतोऽयं, ततो बद्धस्तैस्ताडयित्वा पश्चाद्वाहुबन्धेन शान्तिशिवः, विमोचितः सदाशिवः, लब्धा तेन चेतना, जीवितो दैवयोगेन, माहेश्वरैरभिहितं-शान्तिशिव! किमिदं भगवतस्त्वया कर्तुमारब्धमासीत् ?, शान्तिशिवः प्राह-ननु बधिरताया वैद्योपदेशादौषधं, किंच-मुञ्चत मां मा भट्टारकव्याधिमुपेक्षध्वं, माहेश्वरैश्चिन्तितं-महामहोऽयं, ततोऽभिहितमेतैः-मुञ्चामस्त्वां यद्येवं न करोषि, शान्तिशिवः प्राह-किमहं भवतां वचनेन स्वगुरोरपि भैषजं न करिष्यामि ? , अहं हि यदि परं तस्यैव वैद्यस्य वचनेन तिष्ठामि, नान्यथा, ततः समाहूतो वैद्यः, निवेदितस्तस्मै वृत्तान्तः, ततो मुखमध्ये हसताऽभिहितं वैद्यन-भट्टारक! न बधिरोऽसौ मदीयो दारकः, किं तर्हि, पाठितो मया क्लेशेन वैद्यकशास्त्राणि स तु रमणशीलतया मम रटतोऽपि तदर्थ न शृणोति ततो मया रोषात्ताडितः तन्नेदमौषधं, किंच-प्रगुणीभूतः खल्वयं साम्प्रतं तव प्रभावादनेनैव भैषजेन, तस्मादतः परं न कर्तव्यं मदीयवचनेन त्वयाऽस्येदमौषधमिति, शान्तिशिवेनाभिहितं-एवं भवतु, भट्टारकैर्हि प्रगुणैर्मम प्रयोजनं, ते च यदि प्रगुणास्ततः किमौषधेन!, ततो मुक्तः शान्तिशिवः ॥ तदेषा भद्र! भौतकथानिका श्रुतमात्रग्राहिणस्तवापि मया सार्धमविचारयतो मा भूदित्येवमर्थ परिचोदितस्त्वं मयेति । & प्रकर्षः प्राह–साधु साधूक्तं मामेन, पृच्छामि तीदानी किञ्चिद्भवन्तं, विमर्शेनोक्तं—प्रश्नयतु भद्रः, प्रकर्षः प्राह-माम! यद्येवं ततो विज्ञातेयं मया समस्तान्तरङ्गलोकाधारभूता बहिरङ्गलोकानां सर्वसुन्दरासुन्दरवस्तुनिवर्तिका सभावार्थी चित्तवृत्तिर्महाटवी, एतानि तु महा ॥३४८॥ Jain Education in For Private & Personel Use Only Wainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy