________________
उपमितौ च. ४-प्र.
भौतकथानिका
॥३४८॥
कर
प्येष पापः, ततो विहितः सदाशिवेन म्रियमाणेन महाक्रन्दभैरवः शब्दः, ततो लग्ना वारणार्थ हाहारवं कुर्वन्तः शान्तिशिवस्य माहेश्वराः, शान्तिशिवः प्राह-मारणीयो मयाऽयं दुरात्मा, यो ममैवं कुर्वतोऽपि न शृणोति, अपसरतापसरत यूयमितरथा युष्माकमपीयमेव वार्तेति, तथापि वारयतो माहेश्वरानपि प्रवृत्तस्ताडयितुमसौ लकुटेन, ततो बहुत्वात्तेषां रे लात लातेति ब्रुवाणैरुद्दालि(तैः)स्तेन तस्य हस्ताल्लकुटः, चिन्तितं च-नूनं ग्रहगृहीतोऽयं, ततो बद्धस्तैस्ताडयित्वा पश्चाद्वाहुबन्धेन शान्तिशिवः, विमोचितः सदाशिवः, लब्धा तेन चेतना, जीवितो दैवयोगेन, माहेश्वरैरभिहितं-शान्तिशिव! किमिदं भगवतस्त्वया कर्तुमारब्धमासीत् ?, शान्तिशिवः प्राह-ननु बधिरताया वैद्योपदेशादौषधं, किंच-मुञ्चत मां मा भट्टारकव्याधिमुपेक्षध्वं, माहेश्वरैश्चिन्तितं-महामहोऽयं, ततोऽभिहितमेतैः-मुञ्चामस्त्वां यद्येवं न करोषि, शान्तिशिवः प्राह-किमहं भवतां वचनेन स्वगुरोरपि भैषजं न करिष्यामि ? , अहं हि यदि परं तस्यैव वैद्यस्य वचनेन तिष्ठामि, नान्यथा, ततः समाहूतो वैद्यः, निवेदितस्तस्मै वृत्तान्तः, ततो मुखमध्ये हसताऽभिहितं वैद्यन-भट्टारक! न बधिरोऽसौ मदीयो दारकः, किं तर्हि, पाठितो मया क्लेशेन वैद्यकशास्त्राणि स तु रमणशीलतया मम रटतोऽपि तदर्थ न शृणोति ततो मया रोषात्ताडितः तन्नेदमौषधं, किंच-प्रगुणीभूतः खल्वयं साम्प्रतं तव प्रभावादनेनैव भैषजेन, तस्मादतः परं न कर्तव्यं मदीयवचनेन त्वयाऽस्येदमौषधमिति, शान्तिशिवेनाभिहितं-एवं भवतु, भट्टारकैर्हि प्रगुणैर्मम प्रयोजनं, ते च यदि प्रगुणास्ततः किमौषधेन!, ततो मुक्तः
शान्तिशिवः ॥ तदेषा भद्र! भौतकथानिका श्रुतमात्रग्राहिणस्तवापि मया सार्धमविचारयतो मा भूदित्येवमर्थ परिचोदितस्त्वं मयेति । & प्रकर्षः प्राह–साधु साधूक्तं मामेन, पृच्छामि तीदानी किञ्चिद्भवन्तं, विमर्शेनोक्तं—प्रश्नयतु भद्रः, प्रकर्षः प्राह-माम! यद्येवं ततो
विज्ञातेयं मया समस्तान्तरङ्गलोकाधारभूता बहिरङ्गलोकानां सर्वसुन्दरासुन्दरवस्तुनिवर्तिका सभावार्थी चित्तवृत्तिर्महाटवी, एतानि तु महा
॥३४८॥
Jain Education in
For Private & Personel Use Only
Wainelibrary.org