________________
उपमितौ च. ४-प्र.
भौतकथा
निका
॥३४७॥
द्रस्य, जन्तोः पापरतिर्विषम् । विषं परे रता भार्या, विषं व्याधिरुपेक्षितः॥१॥ अतः शीघ्रमस्य बाधिर्यस्य करोतु किञ्चि- दौषधं भट्टारकः, न खलूपेक्षितुं युक्तोऽयं महाव्याधिः, ततः प्रविष्टो भौताचार्यस्य मनसि स एवाऽऽग्रहविशेषः, ततोऽभिहितोऽनेन शान्तिशिवो नाम निजशिष्यः यदुत-गच्छ त्वं वैद्यभवने मदीयबधिरत्वस्य विज्ञाय भेषजं गृहीत्वा च तचूर्णमागच्छ, मा भूत्कालहरणेन व्याधिवृद्धिरिति, शान्तिशिवेनाभिहितं यदाज्ञापयति भट्टारकः, ततः प्राप्तोऽसौ वैद्यभवने दृष्टो वैद्यः, इतश्च बृहती वेलां रमणं विधाय द्वारात्समागतो वैद्यपुत्रः, ततः क्रोधान्धबुद्धिना वैद्येन गृहीतातिपरुषा वालमयी रजुः बद्धश्चारटन्नसौ निजदारकः स्तम्भके गृहीतो लकुटः ताडयितुमारब्धः ताड्यमाने च निर्दयं तत्र दारके शान्तिशिवः प्राह-वैद्य ! किमित्येनमेवं ताडयसि ?, वैद्येनोक्तं न शृणोति कथञ्चिदप्येष पापः, अत्रान्तरे हाहारवं कुर्वाणा वेगेनागत्य लग्ना वैद्यस्य हस्ते वारणार्थ भार्या, वैद्यः प्राह-मारणीयो मयाऽयं दुरात्मा | यो ममैवं कुर्वतोऽपि न शृणोति अपसरापसर त्वमितरथा तवापीयमेव गतिः तथापि लगन्ती ताडिता साऽपि वैद्येन, शान्तिशिवेन चिन्तितं-अये! विज्ञातं भट्टारकस्यौषधं किमधुना पृष्टेन?, ततो निर्गत्य गतोऽसौ माहेश्वरगृहे याचिता तेन रज्जुः समर्पिता माहेश्वरैः शणमयी, शान्तिशिवः प्राह–अलमनया, मम वालमय्याऽतिपरुषया प्रयोजनं, दत्ता तादृश्येव माहेश्वरैरभिहितं च-भट्टारक! किं पुनरनया कार्य ?, शान्तिशिवेनोक्तं-सुगृहीतनामधेयानां सदाशिवभट्टारकाणामौषधं करिष्यते, ततो गृहीत्वा रज्जु गतो मठे शान्तिशिवः, तत्र च दृष्ट्वा गुरुं कृतमनेन विषमभृकुटितरङ्गभङ्गकरालं वक्रकुहरं बद्धश्चाराटीर्मुञ्चन्नसौ मठमध्यस्तम्भके निजाचार्यः, ततो गृहीतबृहल्लकुटोऽसौ प्रवृत्तस्तस्य ताडने, इतश्च माहेश्वरैश्चिन्तितं-च्छामो भट्टारकाणां क्रियायां क्रियमाणायां प्रत्यासन्नाः स्वयं भवामः, ततः समागतास्ते दृष्टो निर्दयं ताडयन्नाचार्य शान्तिशिवः, तैरभिहितं-किमित्येनमेवं ताडयसि ?, शान्तिशिवः प्राह-न शृणोति कथञ्चिद-18
MAGARRIAGRAAKANKAR
॥३४७॥
Jan Education
&
For Private Personal use only