________________
उपमितौ च. ४-प्र.
॥ ३४६ ॥
Jain Education
"यष्टिं महाबलः । जराजीर्णोऽपि नैवायं, मुच्यते निजतेजसा ।। ६२ ।।" अयं हि भद्र ! राजेन्द्रो, जगदुत्पत्तिकारकः । तेनैव गीयते प्राज्ञै - |र्महामोहपितामहः || ६३ || ये रुद्रोपेन्द्रनागेन्द्रचन्द्रविद्याधरादयः । तेऽप्यस्य भद्र ! नैवाज्ञां लङ्घयन्ति कदाचन ॥ ६४ ॥ तथाहियोऽयं स्ववीर्यदण्डेन, जगञ्चक्रं कुलालवत् । विभ्रम्य घटयत्येव, कार्यभाण्डानि लीलया ।। ६५ ।। तथास्याचिन्त्यवीर्यस्य, महामोहस्य भूपतेः । को नाम भद्र ! लोकेऽस्मिन्नाज्ञां लङ्घयितुं क्षम: ? ।। ६६ ।। तदेष गुणतो भद्र !, वर्णितस्ते नराधिपः । अधुना परिवारोऽस्य, वयेते तं विचिन्तय ।। ६७ ।। केवलं कथयत्येवं, मयि भद्र ! विशेषतः । केनाप्याकूतदोषेण, न त्वं पृच्छसि किश्चन ॥ ६८ ।। हुङ्कारमपि नो दत्से, भावितश्च न लक्ष्यसे । शिरः कम्पनखस्फोटविरहेण विभाव्यसे ॥ ६९ ॥ निश्चलाक्षो मदीयं तु, केवलं मुखमीक्षसे । तदिदं नैव जानेऽहं, बुध्यसे किं न बुध्यसे ? ।। ७० ।। प्रकर्षः प्राह मा मैवं, माम! वोचः प्रसादतः । तवाहं नास्ति तल्लोके, यन्न बुध्ये परिस्फुटम् ॥ ७१ ॥ विमर्शः प्राह जानामि, बुध्यसे त्वं परिस्फुटम् । अयं तु विहितो भद्र !, परिहासस्त्वया सह ॥ ७२ ॥ यतः विज्ञातपरमार्थेऽपि, बालबोधनकाम्यया । परिहासं करोत्येव, प्रसिद्धं पण्डितो जनः ॥ ७३ ॥ बालो विनोदनीयश्च, मादृशां भद्र ! वर्तसे । अतो मत्परिहासेन, न कोपं गन्तुमर्हसि ॥ ७४ ॥ अन्यच्च जानताऽपीदमस्माकं हर्षवृद्धये । त्वया प्रश्नोऽपि कर्तव्यः, कचित्प्रस्तुतवस्तुनि ॥ ७५ ॥ किंच - अविचार्य मया सार्धं, वस्तुतत्त्वं यथास्थितम् । त्वमत्र श्रुतमात्रेण, भद्र ! न ज्ञातुमर्हसि ॥ ७६ ॥ ऐदम्पर्यमतस्तात !, बोद्धव्यं यत्नतस्त्वया । अज्ञातपरमार्थस्य मा भूद्भौतकथानिका ॥ ७७ ॥ प्रकर्षः प्राह —माम ! कथय कीदृशी पुनः सा भौतकथानिका ?, विमर्शेनाभिहितं भद्र! समाकर्णय, अस्ति कचिन्नगरे जन्मबधिरः सदाशिवो नाम भौताचार्यः, स च जराजीर्णकपोलः सन्नुपहासपरेण हस्तसंज्ञयाऽभिहितः केनचिद्धूर्तबटुना यथा – भट्टारक ! किलैवं नीतिशास्त्रेषु पठ्यते, यदुत - विषं गोष्ठी दरि
For Private & Personal Use Only
भौतकथानिका
॥ ३४६ ॥
w.jainelibrary.org