SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥३४५॥ विपर्यास| सिंहासनं -NCR |"ऽहं किलाधुना ॥ ४२ ॥ एतच्च प्रीणयत्येषा, स्वभावेनैव वेदिका । स्वस्योपरिष्टादासीनं, महामोहकुटुम्बकम् ॥ ४३ ॥ बहिरङ्गाः पुन"र्लोका, यद्येनां भद्र ! वेदिकाम् । आरोहन्ति ततस्तेषां, कौतस्यं दीर्घजीवितम् ? ॥४४॥ अन्यच्चैषा स्ववीर्येण, तृष्णाख्या भद्र! वेदिका। "अत्रैव संस्थिता नित्यं, भ्रामयत्यखिलं जगत् ॥ ४५ ॥ तदेषा गुणतो भद्र !, यथार्था वरवेदिका । मया निवेदिता तुभ्यमिदानीं शृणु वि"टरम् ॥ ४६॥ एतत्सिंहासनं भद्र !, विपर्यासाख्यमुच्यते । अस्यैव विधिना नूनं, महामोहस्य कल्पितम् ॥ ४७ ।। यदिदं लोकवि- "ख्यातं, राज्यं याश्च विभूतयः । तत्राहं कारणं मन्ये, नृपतेरस्य विष्टरम् ॥ ४८ ॥ यावच्चास्य नरेन्द्रस्य, विद्यते वरविष्टरम् । इदं तावदहं "मन्ये, राज्यमेताश्च भूतयः ॥४९॥ यतः-अस्मिन्निविष्टो राजाऽयं, महासिंहासने सदा । सर्वेषामेव शत्रूणामगम्यः परिकीर्तितः॥५०॥ | "यदा पुनरयं राजा, भवेदस्माद्बहिः स्थितः । सामान्यपुरुषस्यापि, तदा गम्यः प्रकीर्तितः ॥ ५१ ।। एतद्धि विष्टरं भद्र!, बहिरङ्गजनैः | "सदा । आलोकितं करोत्येव, रौद्रानर्थपरम्पराम् ॥ ५२ ॥ यतः-तावत्तेषां प्रवर्तन्ते, सर्वाः सुन्दरबुद्धयः । यावत्तैर्विष्टरे लोकैरत्र दृष्टिर्न | "पातिता ।। ५३ ॥ निबद्धदृष्टयः सन्तः, पुनरत्र महासने । ते पापिनो भवन्त्युच्चैः, कुतः सुन्दरबुद्धयः? ॥ ५४ ॥ किं च-यन्नद्यास्तत "पुलीनस्य, मण्डपस्य च वर्णितम् । वेदिकायाश्च तद्वीर्य, सर्वमत्र प्रतिष्ठितम् ॥ ५५ ॥ तदिदं गुणतो भद्र!, कथितं तव विष्टरम् । महा"मोहनरेन्द्रस्य, निबोध गुणगौरवम् ॥५६॥ जराजीर्णकपोलापि, यैषा भुवनविश्रुता । अमुष्येयमविद्याख्या, गात्रयष्टिरुदाहृता ॥ ५७ ॥ "एषाऽत्र संस्थिता भद्र !, सकलेऽपि जगत्रये । यत्करोति खवीर्येण, तदाकर्णय साम्प्रतम् ॥ ५८ ॥ अनित्येष्वपि नित्यत्वमशुचिष्वपि शुद्ध- "ताम् । दुःखात्मकेषु सुखतामनात्मस्वात्मरूपताम् ॥ ५९॥ पुद्गलस्कन्धरूपेषु, शरीरादिषु वस्तुषु । लोकानां दर्शयत्येषा, ममकारपरायणा “॥ ६०॥ युग्मम् । ततस्ते बद्धचित्तत्वात्तेषु पुद्गलवस्तुषु । आत्मरूपमजानन्तः, क्लिश्यन्तेऽनर्थकं जनाः ।। ६१ ॥ तदेनां धारयनुच्चैगोत्र-1 | अविद्यागात्रयष्टिः ॥३४५॥ Jain Educatio n al For Private & Personel Use Only Harjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy