SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ R चित्तविक्षेपमंडप उपमितौ& “वलं तथा । घूर्णमानमहानिद्रामदिरामत्तदुर्जनम् ॥ २३ ॥ केलिस्थानं सुविस्तीर्ण, बालिशानां मनोरमम् । विज्ञाततत्त्वैर्दूरेण, वर्जितं शीतृ. ३-प्र. "लशालिभिः ॥ २४ ॥ तदिदं पुलिनं भद्र!, कथितं तव साम्प्रतम् । महामण्डपरूपं ते, कथयामि सनायकम् ॥२५॥-अयं हि चित्त "विक्षेपो, नाना संगीयते बुधैः । गुणतः सर्वदोषौघवासस्थानमुदाहृतः ॥२६॥ अत्र प्रविष्टमात्राणां, विस्मरन्ति निजा गुणाः । प्रवर्तन्ते ॥३४४॥ "महापापसाधनेषु च बुद्धयः ॥ २७ ॥ एतेषामेव कार्येण, निर्मितोऽयं सुवेधसा । राजानो येऽत्र दृश्यन्ते, महामोहादयः किल ॥ २८॥ "बहिरङ्गाः पुनर्लोका, यदि मोहवशानुगाः । स्युर्महामण्डपे भद्र !, प्रविष्टाः कचिदत्र ते ॥ २९ ॥ ततो विभ्रमसन्तापचित्तोन्मादब्रतप्त| "वान् । प्राप्नुवन्ति न सन्देहो, महामण्डपदोषतः ॥ ३० ॥ युग्मम् ॥ एनं भद्र! प्रकृत्यैव, महामण्डपमुच्चकैः । एते नरेन्द्राः संप्राप्य, मो"दन्ते तुष्टमानसाः ।। ३१ ॥ बहिरङ्गाः पुनर्लोका, मोहादासाद्य मण्डपम् । एनं हि दौर्मनस्येनं, लभन्ते दुःखसागरम् ॥ ३२ ॥ अयं हि "चित्तनिर्वाणकारिणी निजवीर्यतः । तेषामेकाग्रतां हन्ति, सुखसन्दोहदायिनीम् ॥ ३३ ॥ केवलं ते न जानन्ति, वीर्यमस्य तपस्विनः । "प्रवेशमाचरन्त्यत्र, तेन मोहात्पुनः पुनः॥ ३४ ॥ यैस्तु वीर्य पुनर्जातं, कथञ्चित् पुण्यकर्मभिः । अस्य नैवात्र ते भद्र !, प्रवेशं कुर्वते "नराः ।। ३५ ॥ एकाग्रमनसो नित्यं, चित्तनिर्वाणयोगतः । ततस्ते सततानन्दा, भवन्त्यत्रैव जन्मनि ।। ३६ ॥ तदेष गुणतो भद्र!, "चित्तविक्षेपमण्डपः । मया निवेदितस्तुभ्यमधुना शृणु वेदिकाम् ॥३७॥ एषा प्रसिद्धा लोकेऽत्र, तृष्णानाम्नी सुवेदिका । अस्यैव च "नरेन्द्रस्य, कारणेन निरूपिता ॥ ३८ ॥ भद्रात एव त्वं पश्य, महामोहेन यो निजः । कुटुम्बान्तर्गतो लोकः, स एवास्यां निवेशितः “॥ ३९ ॥ ये तु शेषा महीपालास्तत्सेवामात्रवृत्तयः । एते निविष्टास्ते पश्य, सर्वे मुत्कलमण्डपे ॥ ४० ॥ एषा हि वेदिका भद्र, प्रकृत्यै"वास्य वल्लभा । महामोहनरेन्द्रस्य, स्वजनस्य विशेषतः ॥ ४१ ॥ अस्यां समुपविष्टोऽयमत एव मुहुर्मुहुः । सगर्व वीक्षते लोकं, सिद्धार्थो SHREE SSSSSS तृष्णावेदिकाव. ॥३४४॥ JainEducation : For Private Personal use only R ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy