________________
उपमितौ
॥३४३॥
प्रमत्तता नदीव०
"पत्तनभूमयः ॥ ३ ॥ यदापि बहिरङ्गेषु, निर्दिश्यन्ते पुरेषु ते । किञ्चित्कारणमालोक्य, विद्वद्भिर्ज्ञानचक्षुषा ॥ ४ ॥ तथापि परमार्थेन, "तेऽन्तरङ्गजनाः सदा। अस्यामेव महाटव्यां, विज्ञेयाः सुप्रतिष्ठिताः॥५॥ (युग्मम्) यतः-नैवान्तरङ्गलोकानां, चित्तवृत्तिमहाटवीम् । विहाय | "विद्यते स्थानं, बहिरङ्गपुरे कचित् ॥६॥ ततश्च–सुन्दरासुन्दराः सर्वे, येऽन्तरङ्गाः कचिजनाः । एनां विहाय ते भद्र!, न वर्तन्ते | "कदाचन ॥ ७ ।। अन्यच-मिथ्यानिषेविता भद्र !, भवत्येषा महाटवी । घोरसंसारकान्तारकारणं पापकर्मणाम् ॥ ८ ॥ सम्यनिषेविता | "भद्र , भवत्येषा महाटवी । अनन्तानन्दसन्दोहपूर्णमोक्षस्य कारणम् ।। ९॥ किं चेह बहुनोक्तेन ?, सुन्दरेतरवस्तुनः । सर्वस्य कारणं | "भद्र :, चित्तवृत्तिमहाटवी ॥ १० ॥ इयं चासारविस्तारा, दृश्यते या महानदी । एषा प्रमत्तता नाम, भद्र! गीता मनीषिभिः ॥११॥ | "इयं निद्रातटी तुङ्गा, कषायजलवाहिनी । विज्ञेया मदिरावादविकथास्रोतसां निधिः ॥ १२ ॥ महाविषयकल्लोललोलमालाकुला सदा । "विकल्पानल्पसत्त्वौधैः पूरिता च निगद्यते ॥ १३ ॥ योऽस्यास्तटेऽपि वर्तेत, नरो बुद्धिविहीनकः । तमुन्मूल्य महावर्ते, क्षिपत्येषा महापगा “॥ १४ ॥ यस्तु प्रवाहे नीरस्य, प्रविष्टोऽस्याः पुमानलम् । स यज्जीवति मूढात्मा, क्षणमात्रं तदद्भुतम् ॥ १५ ॥ यदृष्टं भवता पूर्व, राग| "केसरिपत्तनम् । यञ्च द्वेषगजेन्द्रस्य, सम्बन्धि नगरं परम् ॥ १६ ॥ ताभ्यामेषा समुद्भूता, विगाहोमां महाटवीम् । गत्वा पुनः पतत्येषा, | "घोरसंसारनीरधौ ॥ १७ ॥ अतोऽस्यां पतितो भद्र !, पुरुषस्तत्र सागरे । अवश्यं याति वेगेन, तस्य चोत्तरणं कुतः ?, ॥ १८ ॥ ये "गन्तुकामास्तत्रैव, भीमे संसारसागरे । अत एव सदा तेषां, वल्लभेयं महापगा ॥ १९ ॥ ये तु भीताः पुनस्तस्माद्घोरात्संसारसागरात् ।। "ते दूरारतो यान्ति, विहायेमां महानदीम् ॥२०॥ तदेषा गुणतो भद्र !, वर्णिता तव निम्नगा। त्वं तद्विलसितं नाम, साम्प्रतं पुलिनं "शृणु ॥ २१ ॥ एतद्धि पुलिनं भद्र!, हास्यविब्बोकसैकतम् । विलासलाससङ्गीतहंससारसराजितम् ॥ २२॥ स्नेहपाशमहाकाशविकासध
तद्विलसितपुलिनं ॥३४३॥
HainEducational
For Private Personel Use Only