________________
उपमितौ तृ. ३-प्र.
॥३४२॥
प्राप्तौ तावदावामभीष्टप्रदेशे, ललिता महाटवी, दृष्टं महामोहसाधनं, दर्शनपथमवतीर्णोऽयं दत्तास्थानः सह रागकेसरिणा सपरिकरो महामोहराजः, तन्न युक्तोऽधुनाऽऽवयोरस्मिन्नास्थाने प्रवेशः, मा भूदेतेषामास्थानस्थायिनां लोकानामपूर्वयोरावयोर्दर्शनेन काचिदाशङ्का, अन्यच्च |-अत्रैव प्रदेशे व्यवस्थिताभ्यां दृश्यत एवेदं सकलकालमास्थानं, अतः कुतूहलेनापि न युक्तोऽत्र प्रवेशः, प्रकर्षेणोक्तं एवं भवतु, केवलं मामेयं महाटवी इयं च महानदी इदं च पुलिनं अयं च महामण्डपः एषा च वेदिका एतच्च महासिंहासनं अयं च महामोहनरेन्द्रः एते च सपरिवाराः समस्ता अपि शेषनरेन्द्राः सर्वमिदमदृष्टपूर्व अहो महत्र कुतूहलं, तेनामीषामेकैकं नामतो गुणतश्च मामेन वर्ण्यमानं विस्तरतः श्रोतुमिच्छामि, अभिहितं च पूर्व मामेन यथा-जानाम्यहं दृष्टस्य वस्तुनो यथावस्थितं तत्त्वं, अतः समस्तं निवेदयितुमर्हति मामः, विमर्शः प्राह-सत्यं, अभिहितमिदं मया, केवलं भूरिप्रकारं परिप्रनितमिदं भद्रेण, ततः सम्यगवधार्य निवेदयामि, प्रकर्षः प्राह
-विश्रब्धमवधारयतु मामः, ततो विमर्शन समन्तावलोकिता महाटवी निरीक्षिता महानदी विलोकितं पुलिनं निर्वर्णितो महामण्डपः निरूपिता वेदिका निभालितं महासिंहासनं विचिन्तितो महामोहराजा विचारिताः प्रत्येकं महताऽभिनिवेशेन सपरिकराः सर्वे नरेन्द्राः स्वहृदयेन प्रविष्टो ध्यानं तत्र च व्युपरताशेषेन्द्रियग्रामवृत्तिर्निष्पन्दस्तिमितलोचनयुगलः स्थितः कश्चित्कालं ततः प्रकम्पयता शिरः प्रह| सितमनेन, प्रकर्षः प्राह-माम! किमेतत् ?, विमर्शेनोक्तं-अवगतं समस्तमिदमधुना मया, ततः समुद्भूतो हर्षः, प्रच्छनीयमन्यदपि
साम्प्रतं यत्ते रोचते, प्रकर्षेणोक्तं-एवं करिष्यामि, तावदिदमेव प्रस्तुतं निवेदयतु मामः, विमर्शेनाभिहितं-यद्येवं ततस्तावदेषा चित्तवृत्तिर्नाम महाटवी,-इयं च भद्र ! विस्तीर्णविविधाद्भुतसंगता । उत्पत्तिभूमिः सर्वेषां, सद्रत्नानामुदाहृता ॥१॥ इयमेव च सर्वेषां, लोको“पद्रवकारिणाम् । महानर्थपिशाचाना, कारणं परिकीर्तिता ।। २ ॥ सर्वेषामन्तरङ्गाणां, लोकानामत्र संस्थिताः । चित्तवृत्तिमहाटव्यां, प्राम-|
चित्तवृत्त्य
टवीवर्णनं ॥३४२॥
Jain Education
a
l
For Private & Personel Use Only
l
ainelibrary.org