SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ प्रज्ञावि उपमितौ तृ. ३-प्र. ॥३४॥ शालाहीतसंकेतासंसार्यालापा केता न लक्षयति, अगृहीतसङ्केतयाऽभिहितं-भद्र ! किमन्यः कश्चिद्भावार्थो भवति ?, संसारिजीवः प्राह वाढं, भद्रे ! नास्ति प्रायेण मदीयचरिते भावार्थरहितमेकमपि वचनं, ततो न भवत्या कथानकमात्रेण सन्तोषो विधातव्यः, किं तर्हि ?, भावार्थोऽपि बोद्धव्यः, स च परिस्फुट एव भावार्थः, तथाप्यगृहीतसङ्केते! यत्र कचिन्न बुध्यते भवती तत्र प्रज्ञाविशाला प्रष्टव्या यतो बुध्यते सभावार्थमेषा मदीयवचनं, अगृहीतसङ्केतयोक्तं—एवं करिष्यामि, प्रस्तुतमभिधीयतां । ___ ततो विचक्षणसूरिवचनमनुसंदधानः संसारिजीवः कथानकशेषमिदमाह यदुत-ततो विमर्शनाभिहितं-भद्र! वर्णय यदिहागमनकारणं भद्रस्य, शोकेनाभिहितम्-आस्तेऽत्र नगरेऽद्यापि, वयस्योऽत्यन्तवल्लभः । मम जीवितसर्वस्वं, मतिमोहो महाबलः॥१॥ तदर्शनार्थमायातस्ततोऽहं भद्र ! साम्प्रतम् । आवासितं महाटव्यां, मुक्त्वा देवस्य साधनम् ॥२॥ विमर्शेनोक्तम्-स कस्मात्स्वामिना साध, न गतस्तत्र साधने । शोकः प्राह स देवेन, धारितोऽत्रैव पत्तने ॥ ३ ॥ उक्तश्चासौ यथा नित्यं, न मोक्तव्यं त्वया पुरम् । मतिमोह! त्वमेवास्य, यतः संरक्षणक्षमः॥४॥ ततः प्रपद्य देवाज्ञां, संस्थितोऽत्र पुरे पुरा । एतनिवेदितं तुभ्यं, प्रविशामोऽधुना वयम् ॥५॥ विमर्शः प्राह सिद्धिस्ते, तुष्टः शोको गतः पुरे। विमर्शश्च ततश्चेदं, प्रकर्ष प्रत्यभाषत ॥ ६॥ भद्र! या साधनाधारा, प्रोक्ताऽनेन महाटवी । गत्वा तस्यां प्रपश्यावो, रागकेसरिमत्रिणम् ।। ७॥प्रकर्षः प्राह को वाऽत्र, विकल्पो? माम! गम्यताम् । ततः प्रचलितौ तूर्ण, हृष्टौ स्वस्रीयमातुलौ ॥८॥ ततो विलय वेगेन, मार्ग पवनगामिनौ । प्राप्तौ तौ मध्यमे भागे, महाटव्याः प्रयाणकैः ॥ ९॥ अथ तत्र महामोहं, रागकेसरिसंयुतम् । युक्तं द्वेषगजेन्द्रेण, चतुरङ्गबलान्वितम् ॥ १० ॥ आवासितं महानद्याः, पुलिनेऽतिमनोरमे । महामण्डपमध्यस्थं, वेदिकायां प्रतिष्ठितम् ॥ ११ ॥ महासिंहासनारूढं, भटकोटिविवेष्टितम् । गत्वा स्म नातिदूरं तौ, दत्तास्थानं प्रपश्यतः ॥ १२ ॥ ततो विमर्शेनाभिहितं-भद्र ! ॥३४१॥ Jain Educate For Private & Personal Use Only Kuw.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy