SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ प्रज्ञावि उपमितौ तृ. ३-प्र. ॥३४॥ शालाहीतसंकेतासंसार्यालापा केता न लक्षयति, अगृहीतसङ्केतयाऽभिहितं-भद्र ! किमन्यः कश्चिद्भावार्थो भवति ?, संसारिजीवः प्राह वाढं, भद्रे ! नास्ति प्रायेण मदीयचरिते भावार्थरहितमेकमपि वचनं, ततो न भवत्या कथानकमात्रेण सन्तोषो विधातव्यः, किं तर्हि ?, भावार्थोऽपि बोद्धव्यः, स च परिस्फुट एव भावार्थः, तथाप्यगृहीतसङ्केते! यत्र कचिन्न बुध्यते भवती तत्र प्रज्ञाविशाला प्रष्टव्या यतो बुध्यते सभावार्थमेषा मदीयवचनं, अगृहीतसङ्केतयोक्तं—एवं करिष्यामि, प्रस्तुतमभिधीयतां । ___ ततो विचक्षणसूरिवचनमनुसंदधानः संसारिजीवः कथानकशेषमिदमाह यदुत-ततो विमर्शनाभिहितं-भद्र! वर्णय यदिहागमनकारणं भद्रस्य, शोकेनाभिहितम्-आस्तेऽत्र नगरेऽद्यापि, वयस्योऽत्यन्तवल्लभः । मम जीवितसर्वस्वं, मतिमोहो महाबलः॥१॥ तदर्शनार्थमायातस्ततोऽहं भद्र ! साम्प्रतम् । आवासितं महाटव्यां, मुक्त्वा देवस्य साधनम् ॥२॥ विमर्शेनोक्तम्-स कस्मात्स्वामिना साध, न गतस्तत्र साधने । शोकः प्राह स देवेन, धारितोऽत्रैव पत्तने ॥ ३ ॥ उक्तश्चासौ यथा नित्यं, न मोक्तव्यं त्वया पुरम् । मतिमोह! त्वमेवास्य, यतः संरक्षणक्षमः॥४॥ ततः प्रपद्य देवाज्ञां, संस्थितोऽत्र पुरे पुरा । एतनिवेदितं तुभ्यं, प्रविशामोऽधुना वयम् ॥५॥ विमर्शः प्राह सिद्धिस्ते, तुष्टः शोको गतः पुरे। विमर्शश्च ततश्चेदं, प्रकर्ष प्रत्यभाषत ॥ ६॥ भद्र! या साधनाधारा, प्रोक्ताऽनेन महाटवी । गत्वा तस्यां प्रपश्यावो, रागकेसरिमत्रिणम् ।। ७॥प्रकर्षः प्राह को वाऽत्र, विकल्पो? माम! गम्यताम् । ततः प्रचलितौ तूर्ण, हृष्टौ स्वस्रीयमातुलौ ॥८॥ ततो विलय वेगेन, मार्ग पवनगामिनौ । प्राप्तौ तौ मध्यमे भागे, महाटव्याः प्रयाणकैः ॥ ९॥ अथ तत्र महामोहं, रागकेसरिसंयुतम् । युक्तं द्वेषगजेन्द्रेण, चतुरङ्गबलान्वितम् ॥ १० ॥ आवासितं महानद्याः, पुलिनेऽतिमनोरमे । महामण्डपमध्यस्थं, वेदिकायां प्रतिष्ठितम् ॥ ११ ॥ महासिंहासनारूढं, भटकोटिविवेष्टितम् । गत्वा स्म नातिदूरं तौ, दत्तास्थानं प्रपश्यतः ॥ १२ ॥ ततो विमर्शेनाभिहितं-भद्र ! ॥३४१॥ Jain Educate For Private & Personal Use Only Kuw.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy