________________
उपमितौ तृ. ३-प्र.
॥३४
॥
तु-रौद्रचित्तपुरे गत्वा, देवि ! दुष्टाभिसन्धिना । रक्षिता तिष्ठ निश्चिन्ता, पदातिः स हि मेऽनघः ॥ २४ ॥ ततोऽविवेकिता प्राह,किमत्रास्माभिरुच्यताम् ? । यदार्यपुत्रो जानीते, तदेव करणक्षमम् ॥ २५ ॥ ततो विनिर्गतो देवो, महामोहादिभिः सह । रौद्रचित्तपुरे| देवी, देवादेशेन सा गता ॥ २६ ॥ ततोऽपि बहिरङ्गेषु, पुरेषु किल वर्तते । किञ्चित्कारणमाश्रित्य, साऽधुना युक्तकारिणी ॥ २७ ॥ जातश्चासीत्तदा पुत्रस्तथाऽन्योऽप्यधुना किल । निजभर्तुः समायोगादेतदाकर्णितं मया ॥ २८ ॥ तदेवं नास्ति सा देवी, यत्पुनर्मम कारणम् । नगरागमने भद्र !, तदाकर्णय साम्प्रतम् ॥ २९ ॥
अत्रान्तरे प्रज्ञाविशालयाऽभिहिताऽगृहीतसङ्केता–प्रियसखि! यदनेन संसारिजीवन नन्दिवर्धनवैश्वानरवक्तव्यतायां हिंसापरिणयनावसरे वैश्वानरमूलशुद्धिं निवेदयता पूर्वमभिहितमासीत् यदुत-'यादृशं तत्तामसचित्तनगरं यादृशश्चासौ द्वेषगजेन्द्रो राजा यादृशी च साऽविवेकिता यच तस्यास्तस्मात्तामसचित्तनगराद्रौद्रचित्तपुरं प्रत्यागमनप्रयोजनमेतत् सर्वमुत्तरत्र कथयिष्याम' इति तदिदमधुना तेन संसारिजीवेन समस्तं निवेदितमिति, अगृहीतसङ्केतयाऽभिहितं—साधु प्रियसखि ! साधु सुन्दरं मम स्मारितं भवत्या, ततः प्रज्ञाविशालया | संसारिजीवं प्रत्यभिहितं-भद्र ! यदा विचक्षणाचार्येण नरवाहननरेन्द्राय विमर्शप्रकर्षवक्तव्यतां कथयता तव रिपुदारणस्य सतस्त
स्यामेव परिषदि निषण्णस्य समाकर्णयतो निवेदितमेवमविवेकितापूर्वचरितं तदा किं विज्ञातमासीद्भवता? यदुत-याऽसौ वैश्वानरस्य मा& ताऽभून्नन्दिवर्धनकाले मम च धात्री सैवेयमविवेकिता साम्प्रतं शैलराजस्य जननी वर्तते मम च पुनर्धात्रीति ? किं वा न विज्ञातमिति ?,
संसारिजीवेनोक्तं?-भद्रे ! न किञ्चित्तदा मया विज्ञातं, अज्ञानजनित एव मे समस्तोऽपि निवेदयिष्यमाणोऽनर्थपरम्पराप्रबन्धः, केवलं तदाऽहं चिन्तयामि यथा-कथानिकां काश्चिदेष प्रत्रजितकस्ताताय कथयति, न पुनस्तद्भावार्थमहं लक्षयामि स्म यथेयं साम्प्रतमगृहीतस-1
प्रज्ञाविशालागृहीतसंके| तासंसा
लापाः
॥३४॥
Jain Education
For Private
Personel Use Only
ainelibrary.org