________________
उपमितौ
नृ. ३-प्र.
॥ ३३९ ॥
Jain Education In
—सा महामोहनिर्देशकारिणी गुरुवत्सला । सा महामूढताज्ञायां वर्तते सुन्दरा वधूः ॥ ५ ॥ रागकेसरिनिर्देशं, न लङ्घयति सा सदा । मूढतायाश्च तत्पत्न्याः, सौहार्द दर्शयत्यलम् || ६ || तथा द्वेषगजेन्द्रस्य, सा भर्तुर्गाढवत्सला । तेनाविवेकिता लोके, प्रख्यातिं समुपागता ॥ ७ ॥ तदेतौ भुवनेऽप्यत्र ख्यातौ देवीनरेश्वरौ । इदानीं हन्त भद्राभ्यां कथं प्रष्टव्यतां गतौ ? ॥ ८ ॥ विमर्शः प्राह नैवात्र, कोपः कार्यस्त्वया यतः । सर्वः सर्व न जानीते, सिद्धमेतज्जगत्रये ॥ ९ ॥ आवां दद्वीयसो देशादागतौ न च वीक्षितम् । पूर्वमेतत्पुरं किं तु श्रुतौ देवीनरेश्वरौ ॥ १० ॥ ततञ्च - किं स्याद्वेषगजेन्द्रोऽत्र ?, किं वा स्यान्नगरान्तरे ? । ततः कुतूहलेनेदं, पृष्टं संदिग्धचेतसा ॥ ११ ॥ तद्भद्र ! साम्प्रतं ब्रूहि, किमत्रास्ते नराधिप: ? । किं वा विनिर्गतः कापि ?, पश्यावस्तं नरेश्वरम् ॥ १२ ॥ शोकेनोक्तं जगत्यत्र, वृत्तान्तोऽयमपि स्फुटम् । प्रसिद्ध एव सर्वेषां विदुषां दत्तचेतसाम् ॥ १३ ॥ यथा देवो महामोहस्तत्पुत्रो रागकेसरी । तथा द्वेषगजेन्द्रश्च, समस्तबलसंयुताः ॥ १४ ॥ सन्तोषहतकस्योच्चैर्वधाय कृतनिश्चयाः । विनिर्गताः स्वकस्थानाद्भूरिकालञ्च लङ्घितः || १५ || विमर्शः प्राह यद्येवं, ततो भद्रः किमर्थकम् । इहागतः ? किमास्तेऽत्र, पुरे भोः साऽविवेकिता ? ।। १६ ।। शोकेनाभिहितम् — नास्त्यत्र नगरे तावदधुना साऽविवेकिता । नापि देवसमीपे सा, तत्राकर्णय कारणम् ॥ १७ ॥ यदा तातो महामोहस्तथाऽन्यो रागकेसरी । सन्तोषहतकस्योच्चैर्वधार्थं कृतनिश्चयः ।। १८ ।। तदा प्रचलिते देवे, ताभ्यां सह कृतोद्यमे । देवेन सार्धं सा देवी, प्रस्थिता भर्तृवत्सला ॥ १९॥ ततो द्वेषगजेन्द्रेण सा प्रोक्ता कमलेक्षणा । स्कन्धावारक्षमं देवि !, न त्वदीयं शरीरकम् ॥ २० ॥ दीर्घा कटकसेवेयं, त्वं च गर्भभरालसा । नातः संवाहनायोग्या, वेलामासञ्च वर्तते ॥ २१ ॥ तस्मात्तिष्ठ त्वमत्रेति, ब्रजामो वयमेककाः । तयोक्तं त्वां विना नाथ !, नात्र मे नगरे धृतिः || २२ ॥ तच्छ्रुत्वा देवपादैः सा पुनः प्रोक्ता वरानना । तथापि नैव युक्तं ते, स्कन्धावारे प्रवर्तनम् ॥ २३ ॥ किं
For Private & Personal Use Only
तामसचित्तनगरं
॥ ३३९ ॥
ainelibrary.org