SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. तामसचित्तनगरं कदाचित्तत्रैवावतिष्ठते, विमर्शेनोक्तं-पूरितं भद्रेणावयोः कुतूहलं निवेदितः प्रस्तुतवृत्तान्तः दर्शितं सौजन्यं तद्गच्छावः साम्प्रतमावां, | मिथ्याभिमानेनोक्तं-एवं सिद्धिर्भवतु, तदाकर्ण्य हृष्टो विमर्शः, ततः परस्परं विहितं मनागुत्तमाङ्गनमनं, निर्गतौ राजसचित्तनगराद्वि मर्शप्रकर्षों, विमर्शेनोक्तं-भद्र! कथिता तावदनेन तेषां विषयाभिलाषमानुषाणां मध्ये रसना, तदधुना तमेव विषयाभिलाषं दृष्ट्वा तस्याः ॥३३८॥ स्वरूपमावयोर्गुणतो निश्चेतुं युक्तं, तद्गच्छावस्तत्रैव तामसचित्तनगरे, प्रकर्षः प्राह-यन्मामो जानीते, ततो गतौ तामसचित्तपुरे विमर्शप्रकर्षों, तच्च कीदृशम् ?—"नाशिताशेषसन्मार्गमामूलतस्तेन दुर्ग न लवयं परेषां सदा । सर्वदोद्योतमुक्तं च तद्वर्तते, चौरवृन्दं तु तत्रैव संव"र्धते ॥१॥ वल्लभं तत्सदा पापपूर्णात्मना, निन्दितं तत्सदा शिष्टलोकैः पुरम् । कारणं तत्सदाऽनन्तदुःखोदधेर्वारणं तत्सदाऽशेषसौख्योन्नतेः “॥२॥ केवलं तदपि ताभ्यां विमर्शप्रकर्षाभ्यामीदृशमवलोकितं, यदुत-दवदग्धमिवारण्य, कृष्णवर्ण समन्ततः । रहितं भूरिलोकेन, न | "मुक्तं च निजश्रिया ॥३॥ ततः प्रकर्षस्तं दृष्ट्वा, प्रत्याह निजमातुलम् । माम! किं विद्यते कश्चित्रापि पुरनायकः ? ॥४॥ विमर्शः प्राह "वास्ति, योऽत्र भो! मूलनायकः । केवलं नायकाकारः, कश्चिदत्रास्ति मानवः ॥ ५॥” ततो यावदेतावान् विमर्शप्रकर्षयोर्जल्पः सं18 पद्यते तावदृष्टस्ताभ्यां तत्रैव नगरे प्रवेष्टुकामो दैन्याक्रन्दनविलपनादिभिः कतिचित्प्रधानपुरुषैः परिकरितः शोको नाम पाडीरिकः, ततः संभाषितोऽसौ विमर्शप्रकर्षाभ्यां पृष्टश्च-भद्र ! कोऽत्र नगरे राजा?, शोकः प्राह-ननु भुवनप्रसिद्धोऽयं नरेन्द्रः, तथाहि-महामोहसमुद्भूतो, रागकेसरिसोदरः । धवोऽविवेकितायाश्च, प्रसिद्धोऽयं नराधिपः ॥ १॥ स्वर्गपातालमत्र्येषु, शत्रुभिर्भीतकम्पितैः । नामापि गृह्यते | तस्य, प्रतापहतवैरिणः ।। २ ॥ देवस्याचिन्त्यवीर्यस्य, सत्पराक्रमशालिनः । तस्य द्वेषगजेन्द्रस्य, नाम कः प्रष्टुमर्हति ? ॥३॥ किं च-1 आस्तां तावद्देवः, किं तर्हि ?-या मोहयति वीर्येण, सकलं भुवनत्रयम् । ख्याताऽविवेकिताऽप्यत्र, सा देवी देववल्लभा ॥ ४ ॥ अन्यच्च काकारः, कामः कतिचित्रवान भुवनप्रति शत्रुभिर्भातका ॥३॥ ॥३३८॥ Jain Education For Private & Personel Use Only W w.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy