________________
स
उपमितौ तृ. ३-अ.
रसनाया मूलशुद्धिः
महत्तमाश्च भूयांसो विषयाभिलाषादयः, तेषामितो नगरात् सर्वबलसमुदयेन दण्डयात्रया निर्गतानामनन्तः कालो वर्तते, तेनेदं विरलजनमुपलभ्यते नगरं, विमर्शः प्राह-भद्र ! केन सह पुनस्तेषां विप्रहः ?, मिथ्याभिमानः प्राह-दुरात्मना सन्तोषहतकेन, विमर्शेनोक्तंकिं पुनस्तेन सार्धं विग्रहनिमित्तं?, मिथ्याभिमानेनोक्तं—कचिद्देवादेशेनैव जगद्वशीकरणार्थ विषयाभिलाषेण प्रहितानि पूर्व स्पर्शनरसनादीनि पञ्चात्मीयानि गृहमानुषाणि, ततस्तैर्वशीकृतप्राये त्रिभुवने सन्तोषहतकेन तान्यपि निर्जित्य भूयांसो निर्वाहिताः कियन्तोऽपि लोकाः प्रापिता निर्वृतौ नगर्या, तच्छ्रुत्वा सन्तोषहतकस्योपरि प्रादुर्भूतक्रोधानुबन्धो निर्गतः स्वयमेव देवो रागकेसरी विक्षेपेण, तदिदमत्र विग्रहनिमित्तं, विमर्शेन चिन्तितं-अये ! उपलब्धं तावद्रसनाया नामतो मूलोत्थानं, गुणतः पुनर्विषयाभिलाषं दृष्ट्वा ज्ञास्यामि, यतो जनकानुरूपाणि प्रायेणापत्यानि भवन्ति, ततो भविष्यति मे तद्दर्शनान्निश्चयः, ततोऽभिहितमनेन–भद्र ! यद्येवं ततो भवतां किंनिमित्तमिहावस्थानं ?, मिथ्याभिमानेनोक्तं-प्रस्थितोऽहमप्यासं तदा केवलमपानीकान्निवर्तितो देवेन, अभिहितश्च यथार्य मिथ्याभिमान ! न चलितव्यमितो| नगराद्भवता, इदं हि नगरं त्वयि स्थिते निर्गतेष्वप्यस्मास्वविनष्टश्रीकं निरुपद्रवमास्ते, वयमप्यत्र स्थिता एव परमार्थतो भवामः, यतस्त्वमेवास्य नगरस्य प्रतिजागरणक्षमः, मयाऽभिहितं यदाज्ञापयति देवः, ततः स्थितोऽहं, तदिदमस्माकमत्रावस्थानकारणं, विमर्शेनोक्तंअयि! प्रत्यागता काचिद्देवसकाशात्कुशलवाता ?, मिथ्याभिमानः प्राह-बाढमागता, जितप्रायं वर्तते देवकीयसाधनेन, केवलमसावपि वष्टः | सन्तोषहतको न शक्यते सर्वथाऽभिभवितुं, ददात्यन्तराऽन्तरा प्रत्यवस्कन्दान , निर्वाहयत्यद्यापि कश्चिजनं, अत एव देवेऽपि रागकेसरिणि लग्ने स्वयमेतावान् कालविलम्बो वर्तते, विमर्शनोक्त-क पुनरघुना भवदीयदेवः श्रूयते ?, ततः समुत्पन्ना मिथ्याभिमानस्य प्रणिघिशङ्का, न कथितं यथावस्थितं, अभिहितं चानेन-जानीमः परिस्फुटं, केवलं तामसचित्तं नगरमुररीकृत्य तावदितो निर्गतो देवः, ततः
ॐॐॐॐॐॐ
॥३३७॥
उ. भ. २९
Jain Educationa la
For Private & Personel Use Only
trainelibrary.org