SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ राजसचिते गमनं उपमितौ तविग्रहान् । पशुगणानिव मुर्मुरराशिभिः, पचति किं निशि भक्षणकाम्यया ? ॥१॥ यदा चेयतापि कालेन नोपलब्धा विमर्शप्रकर्षाभ्यां च. ४-प्र. रसनामूलशुद्धिस्तदा प्रविष्टौ तावन्तरङ्गदेशेषु, तत्रापि पर्यटितौ नानाविधस्थानेषु, अन्यदा प्राप्तौ राजसचित्तनगरे, तच्च दीर्घमिवारण्यं, भूरिलोकविवर्जितम् । क्वचिदृष्टगृहारक्षं, ताभ्यां समवलोकिकम् ।। १॥ ततः प्रकर्षणाभिहितं-माम ! किमितीदं नगरं विरलजनतया ॥३३६॥ शून्यमिव दृश्यते ?, किं वा कारणमाश्रित्येदमीदृशं संपन्नं?, विमर्शः प्राह-यथेदं दृश्यते सर्व, समृद्धं निजसम्पदा । केवलं लोकसन्दोहरहितं सुस्थितालयम् ॥१॥ तथेदं भाव्यते नूनं, नगरं निरुपद्रवम् । प्रयोजनेन केनापि, कचिन्निष्क्रान्तराजकम् ॥२॥ युग्मम् । प्रकर्षः प्राह| एवमेतत्सम्यगवधारितं मामेन, विमर्शः प्राह-भद्र ! कियदिदं, जानाम्यहं सर्वस्यैव वस्तुनो दृष्टस्य यत्तत्त्वं, प्रष्टव्यमन्यदपि यत्र ते क|चित्सन्देहः संभवति, प्रकर्षणाभिहितं-माम! यद्येवं ततः किमितीदं नगरं रहितमपि नायकेन विवर्जितमपि भूरिलोकैर्निजश्रियं न परित्यजति ?, विमर्शेनोक्तं-अस्त्यस्य मध्ये कश्चिन्महाप्रभावः पुरुषः तजनितमस्य सश्रीकत्वं, प्रकर्षः प्राह-यद्येवं ततः प्रविश्य निरूपयावस्तं पुरुषं, विमर्शेनोक्तं-एवं भवतु, ततः प्रविष्टौ तौ नगरे प्राप्तौ राजकुले दृष्टस्तत्राहंकारादिकतिचित्पुरुषपरिकरो मिथ्याभिमानो नाम महत्तमः, ततो विमर्शः प्राह-भद्र! सोऽयं पुरुषो यत्प्रभावजन्यमस्य राजसचित्तनगरस्य सश्रीकत्वं, प्रकर्षणोक्तं यद्येवं ततस्तावदेनमुपसृत्य जल्पयावः, पृच्छावश्च कोऽत्र वृत्तान्त इति, विमर्शेनोक्तं-एवं भवतु, ततः संभाषितस्ताभ्यां मिथ्याभिमानः, पृष्टश्च भद्र ! केन पुनर्व्यतिकरण विरलजनमिदं दृश्यते नगरं ?, मिथ्याभिमानः प्राह-ननु सुप्रसिद्धैवेयं वार्ता कथं न विदिता भद्राभ्यां ?, विMमर्शेनोक्तं न कर्तव्योऽत्र भद्रेण कोपः, आवां हि पथिको न जानीवो महच्चात्रार्थे कुतूहलं अतो निवेदयितुमर्हति भद्रः, मिथ्याभि- मानेनोक्तं-अस्ति तावत्समस्तभुवनप्रतीतोऽस्य नगरस्य स्वामी सुगृहीतनामधेयो देवो रागकेसरी, तजनकश्च महामोहः, तथा तयोर्मत्रि ॥ ३३६ ॥ in Educatan in For Private & Personel Use Only R hinelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy