SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ उपमितौ रक्षणोद्युक्तसच्छालिगोपप्रियः ॥ १॥ यत्र च शरत्काले जलवर्जितनीरदवृन्दचितं, स्फुटकाशविराजितभूमितलम् । भवनोदरमिन्दुकरै- शरद्धेमच.४-प्र. विशदं, कलितं स्फटिकोपलकुम्भसमम् ॥ २॥ अन्यच्च-शिखिविरावविरागपरा श्रुतिः, श्रयति हंसकुलस्य कलस्वनम् । न रमते च न्तवर्णन कदम्बवने तदा, विषमपर्णरता जनदृष्टिका ।। ३ ।। लवणतिक्तरसाच्च पराङ्मुखा, मधुरखाद्यपरा जनजिविका । स्फुटमिदं तदहो प्रियता॥३३५॥ करो, जगति शुद्धगुणो न तु संस्तवः ॥ ४ ॥ तथा स्वच्छसन्नीरपूरं सरोमण्डलं, फुल्लसत्पद्मनेत्रैर्दिवा वीक्षते । यन्नभस्तत्पुनर्लोकयात्रेच्छया, रात्रिनक्षत्रसल्लोचनैरीक्षते ॥ ५ ॥ नन्दितं गोकुलं मोदिताः पामराः, पुष्पितो नीपवृक्षो निशा निर्मला । चक्रवाकस्तथापीह विद्रा-15 णको, भाजनं यस्य यत्तेन तल्लभ्यते ॥६॥ ततश्चैवंविधे शरत्समये पश्यन्तौ मनोरमकाननानि विलोकयन्तौ कमलखण्डभूषितसरोवराणि निरीक्षमाणौ प्रमुदितानि ग्रामाकरनगराणि हृष्टौ शक्रोत्सवदर्शनेन तुष्टौ दीपालिकावलोकनेन आह्लादितौ कौमुदीनिरीक्षणेन परीक्षमाणौ जनहृदयानि प्रयुञ्जानौ स्वप्रयोजनसिद्ध्यर्थमुपायशतानि विचरितौ बहिरङ्गदेशेषु विमर्शप्रकर्षों, न दृष्टं क्वचिदपि रसनायाः कुलं, तथा च विचरतोस्तयोः समायातो हेमन्तः, कीदृशश्चासौ ?–अघितचेलतैलवरकम्बलरल्लकचित्रभानुको, विकसिततिलकलोध्रवरकुन्दमनोहरमल्लिका वनः । शीतलपवनविहितपथिकस्फुटवादितदन्तवीणको, जलराशिकिरणहर्म्यतलचन्दनमौक्तिकसुभगताहरः ॥ १॥ यत्र च हेमन्ते दुर्जन18| सङ्गतानीव हस्वतमानि दिनानि सजनमैत्रीव दीर्घतरा रजन्यः सज्ञानानीव संगृह्यन्ते धान्यानि काव्यपद्धतय इव विरच्यन्ते मनोहरा वेण्यः सुजनहृदयानीव विधीयन्ते स्नेहसाराणि वदनानि परबलकलकलेन रणशिरसि सुभटा इव निवर्तन्ते दवीयोदेशगता अपि निजद्यिताविकटनितम्बबिम्बपयोधरभरशीतहरोष्मसंस्मरणेन पथिकलोका इति,-प्रतापहानिः संपन्ना, लाघवं च दिवाकरे । अथवा-दक्षिणाशावलग्नस्य, सर्वस्यापीदृशी गतिः ॥ १ ॥ अन्यच्च-अयं हेमन्तो दुर्गतलोकान्-प्रियवियोगभुजङ्गनिपातितान् , शिशिरमारुतखण्डि Jain Education in For Private & Personel Use Only Linelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy