________________
उपमिती च. ४-प्र.
॥३३४॥
MACHARACHAN
आघातो मूर्धप्रदेशः, साधु वत्स! साध्वितिवदता निवेशितश्चासौ निजोत्सङ्गे, शुभोदयं च प्रत्यभिहितं-तात! दृष्टो बालकस्य विनयः । निरूपितो वचनविन्यासः ? आकलितः स्नेहसारः?, शुभोदयः प्राह-वत्स! किमत्राश्चर्य ?, त्वया बुद्धेर्जातस्येदृशमेव चेष्टितं युज्यते, किं चवत्स!-न युक्तमिदमस्माकं, स्नुषापौत्रकवर्णनम् । विशेषतस्तवाभ्यणे, यत एतदुदाहृतम् ॥ १॥ प्रत्यक्षे गुरवः स्तुत्याः, परोक्षे मित्रबान्धवाः। भृतकाः कर्मपर्यन्ते, नैव पुत्रा मृताः स्त्रियः॥ २ ॥ तथापि चानयोदृष्ट्वा, गुणसम्भारगौरवम् । अवर्णितेन तेनाहं, पुत्र! शक्नोमि नासितुम् ॥ ३ ॥ इयं हि भार्या ते बुद्धिरनुरूपा वरानना । गुणवृद्धिकरी धन्या, यथा चन्द्रस्य चन्द्रिका ॥ ४॥ भर्तृस्नेहपरा पट्टी, सर्वकार्यविशारदा । बलसम्पादिका गेहभरनिर्वहणक्षमा ॥ ५ ॥ विशालदृष्टिरप्येषा, सूक्ष्मदृष्टिरुदाहृता । सर्वसुन्दरदेहापि, द्वेषहेतुर्जडात्मनाम् ।। ६ ॥ अथवा-मलक्षयेण जनिता, पुरे निर्मलमानसे । या च सुन्दरतापुत्री, तस्याः को वर्णनक्षमः ? ॥ ७ ॥ अत एव प्रकर्षोऽपि, नेदानी बहु वर्ण्यते । अनन्तगुण एवायं, जनयित्र्या विभाव्यते ॥ ८ ॥ वत्स! किं बहुनोक्तेन ?, धन्यस्त्वं सर्वथा जने । | यस्येदृशं महाभाग, संपन्नं ते कुटुम्बकम् ॥९॥ अत एव वयं चित्ते, साशङ्काः साम्प्रतं स्थिताः । आकर्ण्य रसनालाभं, नोचितेयं यतस्तव ॥ १०॥ मा भूदुद्धेर्विघाताय, सपत्नी मत्सरादियम् । विशेषतः प्रकर्षस्य, तेन चिन्तातुरा वयम् ।। ११ । किं वा कालविलम्बेन?, प्रस्तुतं प्रविधीयताम् । ततो यथोचितं ज्ञात्वा, युक्तं यत्तत्करिष्यते ॥ १२ ॥ मातुलनेहबद्धात्मा, प्रकर्षः प्रस्थितो यदि । इदं चारुतरं जातं,
क्षीरे खण्डस्य योजनम् ॥ १३ ॥ तदेतौ सहितावेव, गच्छतां कार्यसिद्धये । युवाभ्यां न तु कर्तव्या, चिन्तेति प्रतिभाति मे ॥ १४॥ * ततो विचक्षणेन बुद्ध्या चाभिहितं यदाज्ञापयति तातः, ततो निपतितौ गुरूणां चरणेषु विमर्शप्रकर्षों कृतमुचितकरणीयं प्रवृत्तौ गन्तुं
इतश्च तदा शरत्कालो वर्तते, स च कीदृशः?-शस्यसम्भारनिष्पन्नभूमण्डलो, मण्डलाबद्धगोपालरासाकुलः । साकुलत्वप्रजाजातसारक्षणो,
शरद्धेमन्तवर्णनं ॥३४॥
For Private
Personel Use Only