SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ५ उपमिती तृ. ३-प्र. रसनामूलशुद्धये विमर्शप्रकर्षगमनं ॥३३३॥ स्वयमेव निरूपयतु, कः पुनरत्र रसनामूलशुद्धिगवेषणार्थ प्रस्थापनायोग्य इति, शुभोदयेनोक्तं-वत्स! अयं विमर्शः परमरूपकार्यभरस्य निर्वाहणक्षमः, तथाहि-"युक्तं चायुक्तवद्भाति, सारं चासारमुच्चकैः । अयुक्तं युक्तवद्भाति, विमर्शेन विना जने ॥१॥ "तस्य हेयमुपादेयमुपादेयं च हेयताम् । भजेत वस्तु यस्यायं, विमर्शो नानुकूलकः ॥२॥ अत्यन्तगहने कार्ये, मतिभेदतिरोहिते । विमर्शः "कुरुते नृणामेकपक्षं विवेचितम् ।। ३ ॥ किं च-नरस्य नार्या देशस्य, राज्यस्य नृपतेस्तथा । रत्नानां लोकधर्माणां, सर्वस्य भुवनस्य वा “॥ ४ ॥ देवानां सर्वशास्त्राणां, धर्माधर्मव्यवस्थितेः । विमर्शोऽयं विजानीते, तत्त्वं नान्यो जगत्रये ॥ ५॥ येषामेष महाप्राज्ञो, वत्स! "निर्देशकारकः । ते ज्ञातसर्वतत्त्वार्था, जायन्ते सुखभाजनम् ॥ ६ ॥” अतो धन्योऽसि यस्याय, विमर्शस्तव बान्धवः । न कदाचिदधन्यानां, चिन्तारत्नेन मीलकः ॥ ७ ॥ एष एव नियोक्तव्यो, भवताऽत्र प्रयोजने । भानुरेव हि शर्वर्यास्तमसः क्षालनक्षमः ॥ ८ ॥ विचक्षणेनाभिहितं यदाज्ञापयति तातः, ततो निरीक्षितमनेन विमर्शवदनं, विमर्शः प्राह-अनुग्रहो मे, विचक्षणेनोक्तं-यद्येवं ततः शीघ्रं विधीयतां भवता तातादेशः, विमर्शनाभिहितं-एष सज्जोऽस्मि, केवलं विस्तीर्णा वसुन्धरा नानाविधा देशा भूयांसि राज्यान्तराणि तद्यदि कथञ्चिन्मे कालक्षेपः स्यात्ततः कियतः कालान्निवर्तितव्यं ?, विचक्षणेनोक्तं-भद्र ! संवत्सरस्ते कालावधिः, विमर्शः प्राह -महाप्रसादः, ततो विहितप्रणामश्चलितो विमर्शः, अत्रान्तरे शुभोदयस्य पादयोर्निपत्याभिवन्द्य निजचारुतां प्रणम्य च जननीजनको प्रकणाभिहितं-तात! यद्यपि ममार्यकताताम्बाविरहेऽपि न मनसो निर्वृतिस्तथापि सहचरतया मातुले मम गाढतरं प्रतिबद्धमन्तःकरणं, नाहं मामेन विरहितः क्षणमात्रमपि जीवितुमुत्सहे, ततो मामनुजानीत यूयं येनाहमेनं गच्छन्तमनुगच्छामीति, एतच्चाकोल्लसितापत्यस्नेहमोहपूरितहृदयेनानन्दोदकबिन्दुसन्दोहप्लावितनयनपुटेन विचक्षणेन दक्षिणकराङ्गुलीभिरुन्नामितं प्रकर्षस्य मुखकमलकं दत्ता चुम्बिका ३३३॥ Jain Education a l For Private & Personel Use Only Mujainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy