SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ.३-अ. SCA-NCR-CA ॥३३२॥ “विभ्रान्तिहेतुर्नारी बुधैर्मता ॥४२॥ पुंभिरास्वादितं दिव्यं, विवेकामृतभोजनम् । क्षुद्रेव वामयत्येषा, भुज्यमाना न संशयः॥४३॥ "अनृतं साहसं माया, नैर्लज्यमतिलोभिता । निर्दयत्वमशौचं च, नार्याः स्वाभाविका गुणाः ॥४४॥ वत्स! किं बहुनोक्तेन ?, ये केचि| "दोषसञ्चयाः । ते नारीभाण्डशालायामाकालं सुप्रतिष्ठिताः ॥४५॥” तस्मात्तस्याः सदा पुंसा, न कर्तव्यो हितैषिणा । विश्रम्भवशगो ह्यात्मा, तेनेदमभिधीयते ॥ ४६॥-येयं ते रसना भार्या, संपन्ना लोलतायुता । न सुन्दरैषा मे भाति, को वा योगस्तवानया? ॥४७॥ यतो न ज्ञायतेऽद्यापि, कुतस्त्येयं ततस्त्वया । सङ्ग्रहं कुर्वताऽमुष्या, मूलशुद्धिः परीक्ष्यताम् ॥ ४८ ॥ यतः-अत्यन्तमप्रमत्तोऽपि, मूलशुद्धेरवेदकः। स्त्रीणामर्पितसद्भावः, प्रयाति निधनं नरः॥४९॥ ततो निजचारुतयाऽभिहितं-वत्स विचक्षण! सुन्दरं ते जनकेन मन्त्रितं, अन्विष्यतामस्या रसनाया मूलशुद्धिः, को दोषः ?, विज्ञातकुलशीलस्वरूपा हि सुखतरमनुवर्तनीया भविष्यति, बुद्ध्याऽभि रसनामूहितं-आर्यपुत्र! यद्गुरू आज्ञापयतस्तदेवानुष्ठातुं युक्तमार्यपुत्रस्य, अलङ्घनीयवाक्या हि गुरवः सत्पुरुषाणां भवन्ति, प्रकर्षः प्राह- लशुद्धये तात! सुन्दरमम्बया जल्पितं, विमर्शेनोक्तं, को वाऽत्रासुन्दरं वक्तुं जानीते?, सर्वथा सुन्दरमेवेदं यत्सुपरीक्षितं क्रियत इति, विचक्ष-12 विमर्शप्रणेन चिन्तितं-सुन्दरमेतानि मत्रयन्ति, न संग्रहणीयैव विदुषा पुरुषेणाविज्ञातकुलशीलाचारा ललना, केवलं कथितमेव मम लोलतया कर्षगमनं रसनायाः सम्बन्धि मूलोत्थानं, विज्ञातश्चाधुना मया शीलाचारः यदुत-खादनपानप्रियेयं रसना, अथवा नहि नहि, को हि सकर्णकः पुरुषो भुजङ्गवनितागतिकुटिलतरचित्तवृत्तेः कुलयोषितोऽपि वचने संप्रत्ययं कुर्यात् ?, किं पुनर्दासचेट्यः ?, तत्कीदृशो मम लोलतावचने संप्रत्ययः?, शीलाचारोऽपि सहसंवासेन भूयसा च कालेन सम्यग् विज्ञायते, न यथाकथञ्चित् , तत्किमनेन बहुना ?, करोमि तावदहं तातादीनामुपदेशं ॥३३२॥ गवेषयाम्यस्या रसनाया मूलशुद्धिं, ततो विज्ञाय यथोचितं करिष्यामीति विचिन्त्य विचक्षणेनाभिहितं यदाज्ञापयति तातः, केवलं तातः | Jain Education inairy For Private Personel Use Only
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy