SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ उपमिती टस लोलताविनिर्मुक्तो, रसनां पालयन्नपि । अशेषलेशहीनात्मा, सुखमास्ते विचक्षणः ।। २३ ।। यत:-ये जाता ये जनिष्यन्ते, जडस्येह विचक्षणतु. ३-प्र. दुरात्मनः । रसनालालने दोषा, लोलता तत्र कारणम् ॥ २४ ॥ विचक्षणेन सा यस्माल्लोलताऽलं निराकृता । रसनापालनेऽप्यस्य, ततो-|| स्योपेक्षा ॥३३१॥ |ऽनर्थो न जायते ॥ २५ ॥ इतश्च तुष्टचित्तेन, जडेनाम्बा स्वयोग्यता । ज्ञापिता रसनालाभ, जनकश्चाशुभोदयः ।। २६ ॥ तयोरपि मन-1 मातापि| स्तोषस्तच्छ्रुत्वा समपद्यत । ततस्ताभ्यां जडः प्रोक्तः, स्नेहापूर्णेन चेतसा ।। २७॥-पुत्रानुरूपा ते भार्या, संपन्ना पुण्यकर्मणा । सुन्दरं । तृज्ञापन च त्वयाऽऽरब्धं, यदस्याः पुत्र! लालनम् ॥ २८ ॥ इयं हि सुखहेतुस्ते, सुभार्येयं वरानना । ततो लालयितुं युक्ता, पुत्र! रात्रिन्दिवं त्वया ॥ २९ ॥ ततश्च-स्वयमेव प्रवृत्तोऽसौ, जनकाभ्यां च चोदितः । एक सोन्माथिता बाला, मयूरैर्लपितं तथा ॥ ३० ॥ ततो गाढतरं15 रक्तो, रसनायां जडस्तदा । तल्लालनार्थ मूढात्मा, सहतेऽसौ विडम्बनाः ॥ ३१ ॥ इतो विचक्षणेनापि, स्वीयस्तातः शुभोदयः । ज्ञापितो| रसनालाभं, माता च निजचारुता ॥ ३२ ॥ तथा बुद्धिप्रकर्षों च, विमर्शश्च विशेषतः । बोधितो रसनावाप्तिं, मिलितं च कुटुम्बकम् ॥ ३३ ॥ ततः शुभोदयेनोक्तं, वत्स! किं ते प्रकथ्यते ? | जानासि वस्तुनस्तत्त्वं, सत्योऽसि त्वं विचक्षणः ॥ ३४ ॥ तथापि ते प्रकृत्यैव, यन्ममोपरि गौरवम् । तेन प्रचोदितो वत्स!, तवाहमुपदेशने ॥ ३५ ॥ "वत्स! तावत्समस्तापि, नारी पवनचञ्चला । क्षणरक्तविरक्ता नारीदोषाः “च, सन्ध्याभ्रालीव वर्तते ।। ३६ ।। नदीव पर्वतोद्भूता, प्रकृत्या नीचगामिनी । दर्पणार्पितदुर्ग्राह्यवदनप्रतिमोपमा ॥ ३७ ॥ बहुकौटिल्य"नागानां, संस्थापनकरण्डिका । कालकूट विषस्योच्चैलतेव मरणप्रदा ॥ ३८ ॥ नरकानलसन्तापदायिकेयमुदाहृता । मोक्षप्रापकसद्ध्यानशत्रु"भूता च वर्तते ॥ ३९ ॥ कार्य संचिन्तयत्यन्यद्भाषतेऽन्यच्च मायया । करोत्यन्यच्च सा पुंसः, शुद्धशीला च भासते ॥ ४० ॥ ऐन्द्रजा- ॥३३१॥ "लिकविद्येव, दृष्टेराच्छादकारिका । नरचित्तजतुद्रावकारिणी वह्निपिण्डवत् ॥४१॥ प्रकृत्यैव च सर्वेषां, वैमनस्यविधायिनी । संसारचक्र ACADARAKAS Jain Education For Private & Personel Use Only Enelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy