SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ 16 उपमिती तृ. ३-प्र. ॥३३ ॥ लोकनिन्दा एवं लालयतस्तस्य, जडस्य रसनां सदा । यदि झूणं भवेत्तच्च, कथयत्येव लोलता ॥ ४ ॥ यतः सानुदिनं वक्ति, स्वामिनी मधुरप्रिया । मांसमाहर मद्यं च, नाथ! मृष्टं च भोजनम् ॥ ५॥ ददस्व व्यजनान्यस्यै, रोचन्ते तानि सर्वदा । तत्सर्व स करोत्येव, मन्वानोऽनुग्रह जडः ॥६॥ सततं लालनासक्तो, भार्यायाः प्रतिवासरम् । क्लेशराशिनिमग्नोऽपि, मोहादेवं च मन्यते ॥ ७॥ यदुत-धन्योऽहं कृतकृत्योऽहमहो मे सुखसागरः । यस्येदृशी शुभा भार्या, संपन्ना पुण्यकर्मणः ॥ ८ ॥ नास्ति नूनं मया सदृक् , सुखितो भुवनत्रये । यतो|ऽस्या लालनां मुक्त्वा, किं नाम भुवने सुखम् ? ॥ ९॥ यतोऽलीकसुखास्वादपरिमोहितचेतनः । तदर्थ नास्ति तत्कर्म, यदसौ नानुचेष्टते ॥ १०॥ तं भार्यालालनोद्युक्तं, तथा दृष्ट्वाऽखिलो जनः । जडं हसितुमारब्धः, सत्यमेष जडो जडः ॥ ११ ॥ यतो धर्मार्थमोक्षेभ्यो, विमुखः पशुसन्निभः। रसनालालनोद्युक्तो, न चेतयति किञ्चन ।। १२ ।। जडस्तु तत्र गृद्धात्मा, लोकैरेवं सहस्रशः । हसितो 8 | निन्दितश्चापि, न कथञ्चिन्निवर्तते ।। १३ ।। विचक्षणस्तु तच्छ्रुत्वा, लोलतायाः प्रभाषितम् । ततश्च चिन्तयत्येवं, तदा मध्यस्थमानसः ॥ १४ ॥ अस्ति तावदियं भार्या, मम नास्त्यत्र संशयः । आस्माके दृश्यते येन, वने वदनकोटरे ॥ १५॥ केवलं यदियं वक्ति, रस-1 नालालनं प्रति । अपरीक्ष्य न कर्तव्यं, तन्मया सुपरिस्फुटम् ॥ १६ ॥ यतः स्त्रीवचनादेव, यो मूढात्मा प्रवर्तते । कार्यतत्त्वमविज्ञाय, तेनानर्थो न दुर्लभः ॥ १७ ॥ ततोऽनादरतः किञ्चिल्लोलतायाचने सति । दत्त्वा खाद्यादिकं तावत्कुर्महे कालयापनाम् ॥१८॥ ततश्च-भार्येयं पालनीयेति, मत्वा रागविवर्जितः । ददानः शुद्धमाहारं, लोलतां च निवारयन् ॥ १९ ॥ अविश्रब्धमनास्तस्यां, लोकयात्रानुरोधतः । अनिन्दितेन मार्गेण, रसनामनुवर्तयन् ।। २० ।। धर्मार्थकामसंपन्नो, विद्वद्भिः परिपूजितः । स्थितो विचक्षणः कालं, कियन्तमपि लीलया ॥ २१ ॥ युग्मम् । तं च तेजस्विनं मत्वा, निरीहं च विचक्षणम् । भावज्ञा किञ्चिदप्येनं, याचते नैव लोलता ।। २२॥ ॥३३०॥ Jain Educatio n al For Private & Personel Use Only Dr.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy