SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ 16 उपमिती तृ. ३-प्र. ॥३३ ॥ लोकनिन्दा एवं लालयतस्तस्य, जडस्य रसनां सदा । यदि झूणं भवेत्तच्च, कथयत्येव लोलता ॥ ४ ॥ यतः सानुदिनं वक्ति, स्वामिनी मधुरप्रिया । मांसमाहर मद्यं च, नाथ! मृष्टं च भोजनम् ॥ ५॥ ददस्व व्यजनान्यस्यै, रोचन्ते तानि सर्वदा । तत्सर्व स करोत्येव, मन्वानोऽनुग्रह जडः ॥६॥ सततं लालनासक्तो, भार्यायाः प्रतिवासरम् । क्लेशराशिनिमग्नोऽपि, मोहादेवं च मन्यते ॥ ७॥ यदुत-धन्योऽहं कृतकृत्योऽहमहो मे सुखसागरः । यस्येदृशी शुभा भार्या, संपन्ना पुण्यकर्मणः ॥ ८ ॥ नास्ति नूनं मया सदृक् , सुखितो भुवनत्रये । यतो|ऽस्या लालनां मुक्त्वा, किं नाम भुवने सुखम् ? ॥ ९॥ यतोऽलीकसुखास्वादपरिमोहितचेतनः । तदर्थ नास्ति तत्कर्म, यदसौ नानुचेष्टते ॥ १०॥ तं भार्यालालनोद्युक्तं, तथा दृष्ट्वाऽखिलो जनः । जडं हसितुमारब्धः, सत्यमेष जडो जडः ॥ ११ ॥ यतो धर्मार्थमोक्षेभ्यो, विमुखः पशुसन्निभः। रसनालालनोद्युक्तो, न चेतयति किञ्चन ।। १२ ।। जडस्तु तत्र गृद्धात्मा, लोकैरेवं सहस्रशः । हसितो 8 | निन्दितश्चापि, न कथञ्चिन्निवर्तते ।। १३ ।। विचक्षणस्तु तच्छ्रुत्वा, लोलतायाः प्रभाषितम् । ततश्च चिन्तयत्येवं, तदा मध्यस्थमानसः ॥ १४ ॥ अस्ति तावदियं भार्या, मम नास्त्यत्र संशयः । आस्माके दृश्यते येन, वने वदनकोटरे ॥ १५॥ केवलं यदियं वक्ति, रस-1 नालालनं प्रति । अपरीक्ष्य न कर्तव्यं, तन्मया सुपरिस्फुटम् ॥ १६ ॥ यतः स्त्रीवचनादेव, यो मूढात्मा प्रवर्तते । कार्यतत्त्वमविज्ञाय, तेनानर्थो न दुर्लभः ॥ १७ ॥ ततोऽनादरतः किञ्चिल्लोलतायाचने सति । दत्त्वा खाद्यादिकं तावत्कुर्महे कालयापनाम् ॥१८॥ ततश्च-भार्येयं पालनीयेति, मत्वा रागविवर्जितः । ददानः शुद्धमाहारं, लोलतां च निवारयन् ॥ १९ ॥ अविश्रब्धमनास्तस्यां, लोकयात्रानुरोधतः । अनिन्दितेन मार्गेण, रसनामनुवर्तयन् ।। २० ।। धर्मार्थकामसंपन्नो, विद्वद्भिः परिपूजितः । स्थितो विचक्षणः कालं, कियन्तमपि लीलया ॥ २१ ॥ युग्मम् । तं च तेजस्विनं मत्वा, निरीहं च विचक्षणम् । भावज्ञा किञ्चिदप्येनं, याचते नैव लोलता ।। २२॥ ॥३३०॥ Jain Educatio n al For Private & Personel Use Only Dr.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy