________________
उपमितौ
॥३२९॥
-गृहिणीरहिताविमौ वराको न सुखेन तिष्ठतः अतः करोम्यनयोहिणीमिति, ततस्तेन भगवता विधात्रा दयापरीतचेतसा युवयोनिमित्तमत्रैव महाविले निर्वर्तितैषा मे स्वामिनी, तथाऽहं चास्या एवानुचरीति, जडेन चिन्तितं-अये! यथा मया विकल्पितं तथैवेदं संपन्नं, अस्मदर्थमेवेयं रसना निष्पादिता वेधसा, अहो मे प्रज्ञातिशयः, विचक्षणेन चिन्तितं-कः पुनरयं विधिर्नाम?, हुं ज्ञातं, स एव कर्मपरिणामो भविष्यति, कस्यान्यस्येदृशी शक्तिरिति, जडः प्राह-भद्रे! ततस्ततः, लोलतयोक्तं ततः प्रभृत्येषा मे स्वामिनी युक्ता मया युवाभ्यां सह खादन्ती नानाविधानि खाद्यकानि पिबन्ती विविधरसोपेतानि पानकानि ललमाना यथेष्टचेष्टया तत्रैव विकलाक्षनिवासे नगरे त्रिष्वपि पाटकेषु तथा पञ्चाक्षनिवासे मनुजगतो अन्येषु च तथाविधेषु स्थानेषु विचरिता भूयांसं कालं, अत एव क्षणमप्येषा युष्मद्विरहं न विषहते, युष्मदवधीरणया चागतमूर्छा म्रियते स्वामिनी, तदेवमहं भवतोश्चिरपरिचिताऽस्मि, एतच्चाकर्ण्य सिद्धं नः समीहितं इति भावनया परितुष्टो जडः, ततोऽभिहितमनेन—सुन्दरि! यद्येवं प्रविशतु तव स्वामिनी नगरे, पवित्रयत्वेकं स्वावस्थानेन महाप्रासाद, येन पुनस्तत्र चिरन्तनस्थित्या सुखमास्महे, लोलतयाऽभिहितं—मा मैवमाज्ञापयतु देवः, न निर्गतेयं स्वामिनी कदाचिदपीतः काननात्, पूर्वमपीयमत्रैव वर्तमाना युवाभ्यां सह ललिता, तधुनाऽप्यस्मिन्नेव स्थाने तिष्ठन्ती लालयितुं युज्यते स्वामिनी, जडः प्राह यद्भवती जानीते तदेव क्रियते, सर्वथा त्वमेवात्र प्रमाणं, कथनीयं यद्रोचते तव स्वामिन्यै येन संपादयामः, लोलतयोक्तं महाप्रसादः, किमत्रापरमुच्यतां ?, अनुभवतु भवतोः स्वामिनी लालनेन सुखामृतमविच्छेदेनेति । एवं च स्थापित सिद्धान्त-तत आरभ्य यत्नेन, जडो वदनकोटरे । तिष्ठन्तीं रसनां नित्यं, लालयत्येव मोहतः ॥ १॥ कथं ?-क्षीरेक्षुशर्कराखण्डदधिसर्पिगुंडादिभिः । पक्वान्नखाद्यकैर्दिव्यैर्द्राक्षादिवरपानकैः ॥२॥ मद्यैर्मासरसैश्चित्रैमधुभिश्च विशेषतः । ये चान्ये लोक विख्याता, रसास्तैश्च दिने दिने ॥३॥
रसनालोलतास्वीकार:
पालनंतयोः
A
Jain Education
For Private & Personal Use Only
Onjainelibrary.org