________________
उपमितौ पीठबन्धः
॥३२॥
कारादयः शाभिचारिणः, एते तु सावधविपर्यासविक
त्तोद्वेगविधायितया च, नेत्ररोग इवाज्ञानं विवेकदृष्टिविघातनिमित्ततया, जलोदरमिव प्रमादः सदनुष्ठानोत्साह्यातकतयेति । ततश्चार्य जीवोद्रमककुविमिथ्यात्वादिभिरेतैर्भावरोगैर्विवलीकृतो न किञ्चिञ्चेतयते । ततश्च यदेतत् साम्प्रतमेव 'न जानीते भक्ष्याभक्ष्य'मित्याद्यनध्यवसायरूपं महातमःल्पोपनय: प्रतिपादितं ये च 'नास्ति परलोक' इत्यादयो विपर्यासविकल्पाः प्रतिपादितास्तेऽस्य द्वयस्याप्युत्पत्तौ बाह्याः कुतर्कग्रन्थादयः सहकारिकारणभा
वेनोत्पादकाः, एते तु रागद्वेषमोहादय आन्तरा उपादानकारणभावेन जनकाः, तस्मात्पूर्वोक्ता सर्वानर्थपरम्परा परमार्थतो गाढतरमेतज्जन्याकाऽपि विज्ञेया, किञ्च-कुशास्त्रसंस्कारादयः कादाचित्का एते तु रागादयस्तदुत्पादने सकलकालभाविनः, अन्यच्च-कुदर्शनश्रवणादयो भवन्तोलाऽपि भवेयुर्वाऽनर्थपरम्पराकारणं न वेति व्यभिचारिणः, एते तु रागादयो भवन्तोऽवश्यंतया महानर्थगर्तपातं कुर्वन्त्येव, नास्त्यत्र व्यभिचारो,
यतस्तैरभिभूतोऽयं जीवः प्रविशति महातमोऽज्ञानरूपं विधत्ते नानाविधविपर्यासविकल्पान अनुतिष्ठति कदनुष्ठानशतानि सञ्चिनोति गुरुतर-1 कर्मभारं, ततस्तत्परिणत्या क्वचिज्जायते सुरेषु क्वचिदुत्पद्यते मानुषेषु कचिदासादयति पशुभावं क्वचित्पतति महानरकेषु, ततश्च तदेव प्राक्प्रतिपादितस्वरूपं महादुःखसन्तानमनवरतमरघट्टघटीयनन्यायेनानन्तशोऽनुभवद्वारेण परावर्त्तयतीति । एवञ्च स्थिते यत्तद्रमकवर्णने प्रत्य-| पादि यदुत—'शीतोष्णदंशमशकक्षुत्पिपासाद्युपद्रवैर्बाध्य मानो महाघोरनरकोपमवेदन' इति, तत्र जीवरोरे समर्गलतरं मन्तव्यमिति, अत एव च यदुक्तं यदुतासौ द्रमकः-'कृपास्पदं सतां दृष्टो, हास्यस्थानं स मानिनाम् । बालानां क्रीडनावासो, दृष्टान्तः पापकर्मणाम् ॥१२८॥ तत्रापि जीवे सकलं योजनीयम् , तथाहि-सततमसातसंततिजम्बालग्रस्तोऽयं जीवो दृश्यमानोऽत्यन्तसात्मीभूतप्रशमसुखरसानां | भगवतां सत्साधूनां भवत्येव कृपास्थानं, क्लिश्यमानेषु सकलकालं करुणाभानाभावितचित्तत्वात्तेषां, तथा मानिनामिव वीररसवशेन तप
॥३२॥ १०पथ प्र. २ वर्णके प्र.३ संनिपात पा. ४ करुणाभावित पा.
Jain Education Ho
a
For Private & Personel Use Only
IChanelibrary.org