SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥३२॥ कारादयः शाभिचारिणः, एते तु सावधविपर्यासविक त्तोद्वेगविधायितया च, नेत्ररोग इवाज्ञानं विवेकदृष्टिविघातनिमित्ततया, जलोदरमिव प्रमादः सदनुष्ठानोत्साह्यातकतयेति । ततश्चार्य जीवोद्रमककुविमिथ्यात्वादिभिरेतैर्भावरोगैर्विवलीकृतो न किञ्चिञ्चेतयते । ततश्च यदेतत् साम्प्रतमेव 'न जानीते भक्ष्याभक्ष्य'मित्याद्यनध्यवसायरूपं महातमःल्पोपनय: प्रतिपादितं ये च 'नास्ति परलोक' इत्यादयो विपर्यासविकल्पाः प्रतिपादितास्तेऽस्य द्वयस्याप्युत्पत्तौ बाह्याः कुतर्कग्रन्थादयः सहकारिकारणभा वेनोत्पादकाः, एते तु रागद्वेषमोहादय आन्तरा उपादानकारणभावेन जनकाः, तस्मात्पूर्वोक्ता सर्वानर्थपरम्परा परमार्थतो गाढतरमेतज्जन्याकाऽपि विज्ञेया, किञ्च-कुशास्त्रसंस्कारादयः कादाचित्का एते तु रागादयस्तदुत्पादने सकलकालभाविनः, अन्यच्च-कुदर्शनश्रवणादयो भवन्तोलाऽपि भवेयुर्वाऽनर्थपरम्पराकारणं न वेति व्यभिचारिणः, एते तु रागादयो भवन्तोऽवश्यंतया महानर्थगर्तपातं कुर्वन्त्येव, नास्त्यत्र व्यभिचारो, यतस्तैरभिभूतोऽयं जीवः प्रविशति महातमोऽज्ञानरूपं विधत्ते नानाविधविपर्यासविकल्पान अनुतिष्ठति कदनुष्ठानशतानि सञ्चिनोति गुरुतर-1 कर्मभारं, ततस्तत्परिणत्या क्वचिज्जायते सुरेषु क्वचिदुत्पद्यते मानुषेषु कचिदासादयति पशुभावं क्वचित्पतति महानरकेषु, ततश्च तदेव प्राक्प्रतिपादितस्वरूपं महादुःखसन्तानमनवरतमरघट्टघटीयनन्यायेनानन्तशोऽनुभवद्वारेण परावर्त्तयतीति । एवञ्च स्थिते यत्तद्रमकवर्णने प्रत्य-| पादि यदुत—'शीतोष्णदंशमशकक्षुत्पिपासाद्युपद्रवैर्बाध्य मानो महाघोरनरकोपमवेदन' इति, तत्र जीवरोरे समर्गलतरं मन्तव्यमिति, अत एव च यदुक्तं यदुतासौ द्रमकः-'कृपास्पदं सतां दृष्टो, हास्यस्थानं स मानिनाम् । बालानां क्रीडनावासो, दृष्टान्तः पापकर्मणाम् ॥१२८॥ तत्रापि जीवे सकलं योजनीयम् , तथाहि-सततमसातसंततिजम्बालग्रस्तोऽयं जीवो दृश्यमानोऽत्यन्तसात्मीभूतप्रशमसुखरसानां | भगवतां सत्साधूनां भवत्येव कृपास्थानं, क्लिश्यमानेषु सकलकालं करुणाभानाभावितचित्तत्वात्तेषां, तथा मानिनामिव वीररसवशेन तप ॥३२॥ १०पथ प्र. २ वर्णके प्र.३ संनिपात पा. ४ करुणाभावित पा. Jain Education Ho a For Private & Personel Use Only IChanelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy