SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ RSAR उपमितौ "नापगच्छति तर्षः, अभिभूयते शीतवेदनया कदर्थ्यते तापातिरेकेण, तथोदीरयन्ति च तदन्यनारका नानाकाराणि दुःखानि, ततश्चायं पीठबन्धः "जीवो गाढतापानुगतो हा माता नाथास्त्रायध्वं त्रायध्वमिति विक्लवमाक्रोशति, न चास्य तत्र गात्रत्रायकः कश्चिद्विद्यते, कथश्चिदुत्तीर्णोऽपि "नरकाद्विबाध्यते तिर्यक्षु वर्तमानः, कथम् ? वाह्यते भारं कुट्यते लकुटादिभिः छिद्यन्तेऽस्य कर्णपुच्छादयः खाद्यते कृमिजालैः सहते बु॥३१॥ "भुक्षां म्रियते पिपासया तुद्यते नानाकारयातनाभिरिति, ततः कथञ्चिदवाप्तमनुष्यभवोऽप्येष जीवः पीड्यत एव दुःखैः, कथम् ?, तदुच्यते -केशयन्त्यनन्तरोगत्राताः जर्जरयन्ति जराविकाराः दोदूयन्ते दुर्जनाः विह्वलयन्तीष्टवियोगाः परिदेवयन्त्यनिष्टसंप्रयोगाः विसंस्थुलयन्ति "धनहरणानि आकुलयन्ति स्वजनमरणानि विह्वलयन्ति नानाऽध्यसनानीति, तथा कथञ्चिल्लब्धविबुधजन्माप्येष जीवो प्रस्थत एव नानावे"दनामिः, तथाहि-आज्ञाप्यते विवशः शक्रादिभिः खिद्यते परोत्कर्षदर्शनेन जीर्यते प्रागभवकृतप्रमादस्मरणेन दन्दह्यतेऽस्वाधीनामरसुन्द"रीप्रार्थनेन शल्यते तन्निदानचिन्तनेन निन्द्यते महर्द्धिकदेववृन्देन विलपत्यात्मनश्च्यवनदर्शनेन आक्रन्दति गाढप्राप्तासन्नमृत्युः पतति सम"स्ताशुचिनिदाने गर्भकलमल इति,” एवं स्थिते यद्गमकं वर्णयताऽभ्यधायि यदुत-'सर्वाङ्गीणमहाघाततापानुगतचेतनः हा मातस्रायतामित्थं दैन्यविक्रोशविक्लव' इति, तदस्यापि जीवस्य तुल्यमेव द्रष्टव्यम् , त(य)स्मादस्याः सर्वस्या महानर्थपरम्परायाश्चा(स्वा)त्मगताः कुविक ल्पास्तत्सम्पादकाः कुदर्शनग्रन्थास्तत्प्रणेतारश्च कुतीर्थिकाः कारणमिति, यत्तून्मादादयस्तस्य द्रमकस्य रोगा निर्दिष्टास्तेऽस्य जीवस्य महामोहादयो ६ विज्ञेयाः, तत्र मोहो मिथ्यात्वं तदुन्माद इव वर्त्तते समस्ताकार्यप्रवृत्तिहेतुतया, ज्वर इव रागः सर्वाङ्गीणमहातापनिमित्ततया, शूलमिव द्वेषो गाढहृदयवेदनाकारणतया, पामेव कामस्तीवविषयाभिलाषकण्डूकारितया, गलत्कुष्ठमिव भयशोकारतिसम्पाद्यं दैन्यं जनजुगुप्साहेतुतया चि १ तीव्रवेदनाभिः. २ एनं प्र. ३ विधुरयन्ति प्र. ४ शरीरजर्जरकाः. दमककुवि|ल्पोपनयः ॥३१॥ lain Educati o nal For Private & Personel Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy