SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ उपमिती पीठबन्धः ॥३०॥ कदन्नाशापाशवशीकृतोऽनवरतं भ्रमतीति, यत्पुनस्तस्य भिक्षाधारं घटकर्परमाख्यातं तदस्य जीवद्रमकस्यायुष्कं विज्ञेयं, यतस्तदेव तदुपभोग्यस्य विषयकदन्नादेश्चारित्रमहाकल्याणकादेश्चाश्रयो वर्त्तते, यतश्च तदेव गृहीत्वा भूयो भूयोऽस्मिन् संसारनगरेऽयं जीवः पर्यटतीति, ये तु तस्य द्रमकस्य दुर्दान्तडिम्भसंघाता यष्टिमुष्टिमहालोष्टप्रहारैः क्षणे क्षणे ताडयन्तः शरीरं जर्जरयन्तीति निदेर्शितास्तेऽस्य जीवस्य कुविकल्पास्तत्संपादकाः कुतर्कप्रन्यास्तत्प्रणेतारो वा कुतीर्थिका विज्ञेयाः, ते हि यदा यदाऽमुं जीवं वराकं पश्यन्ति तदा तदा कुहेतुशतमुद्गर-18 घातपातैरस्य तत्त्वाभिमुख्यरूपं शरीरं जर्जरयन्ति, ततश्च तैर्जर्जरितशरीरोऽयं जीवो-"न जानीते कार्याकार्यविचारं न लक्षयति भक्ष्याभ"क्ष्यविशेषं न कलयति पेयापेयस्वरूपं नावबुध्यते हेयोपादेयविभागं नावगच्छति स्वपरयोर्गुणदोषनिमित्तमपीति, ततोऽसौ कुतर्कश्रान्तचित्त- जीवस्य वि| "श्चिन्तयति-नास्ति परलोको न विद्यते कुशलाकुशलकर्मणां फलं न संभवति खल्वयमात्मा नोपपद्यते सर्वज्ञः न घटते तदुपदिष्टो कत्यागा "मोक्षमार्ग इति, ततोऽसावतत्त्वाभिनिविष्टचित्तो हिनस्ति प्राणिनो भाषतेऽलीकमादत्ते परधन रमते मैथुने परदारेषु वा गृह्णाति परिप्रहं न कुचेष्टा | "करोति चेच्छापरिमाणं भक्षयति मांसमास्वादयति मद्यं न गृह्णाति सदुपदेशं प्रकाशयति कुमार्ग निन्दति वन्दनीयान् वन्दतेऽवन्दनीयान लि.१-१६ "गच्छति स्वपरयोर्गुणदोषनिमित्तमिति वदति परावर्णवादमाचरति समस्तपातकानीति । ततो बनाति निबिडं भूरिकर्मजालं पतत्येष जीवो "नरकेषु, तत्र च पतितः पच्यते कुम्भीपाकेन विपाट्यते क्रकचपाटनेन आरोह्यते वनकण्टकाकुलासु शाल्मलीषु पाय्यते सन्दंशकैर्मुखं "विवृत्य कलकलायमानं तप्तं त्रपु भक्ष्यन्ते निजमांसानि भृज्यतेऽत्यन्तसन्तप्तभ्राष्टेषु तार्यते पूयवसारुधिरक्लेदमूत्राश्रकलुषां वैतरणी छिद्य-15 "तेऽसिपत्रवनेषु स्वपापभरप्रेरितैः परमाधार्मिकसुरैरिति, तथा समस्तपुद्गलराशिभक्षणेऽपि नोपशाम्यति बुभुक्षा निःशेषजलधिपानेऽपि १ अनारतं पा. २ दर्शिताः प्र. ३ म्योर्न विभेदं. Jain Educa t ional For Private & Personel Use Only Corrjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy