________________
उपमितौ पीठबन्धः
मपि जीवोऽनादौ भवभ्रमणे केवलो जायते केवलो म्रियते केवलश्च स्वकर्मपरिणतिढौकितं सुखदुःखमनुभवति इत्यतो नास्य परमार्थतः
स्वस्य द्रमकश्चिद्वन्धुरस्ति, यथाऽसौ रोरो दुष्टबुद्धिस्तथाऽयमपि जीवोऽतिविपर्यस्तो, यतोऽनन्तदुःखहेतुन विषयानासाद्य परितुष्यति, परमार्थशत्रून
कोपमा कषायान् बन्धूनिव सेवते, परमार्थतोऽन्धत्वमपि मिथ्यात्वं पटुदृष्टिरूपतया गृह्णाति, नरकपातहेतुभूतामप्यविरतिं प्रमोदकारणमाकलयति, अनेकानर्थसार्थप्रवर्तकमपि प्रमादकदम्बकमत्यन्तस्निग्धमित्रवृन्दमिव पश्यति, धर्मधनहारितया चरटकल्पानपि दुष्टमनोवाकाययोगान् पु-| त्रानिव बहुधनार्जनशीलान मन्यते, निबिडबन्धनोपमानमपि पुत्रकलत्रधनकनकादीनाहादातिरेकहेतून पर्यालोचयतीति, यथाऽसौ द्रमको ४ दारियोपहतस्तथाऽयमपि जीवः सद्धर्मवराटिकामात्रेणापि शून्यत्वाद्दारिद्र्याक्रान्तमूर्तिः, यथाऽसौ रोरः पौरुषविकलस्तथाऽयमपि जीवः । स्वकर्महेतूच्छेदवीर्यविकलतया पुरुषकाररहितो विज्ञेयः, यथाऽसौ द्रमकः क्षुत्क्षामशरीरस्तथाऽयमपि जीवः सकलकालं विषयबुभुक्षाऽनिवृत्तेरत्यन्तकर्षितशरीरो ज्ञातव्यः, यथाऽसौ रोरोऽनाथः कथितस्तथाऽयमपि जीवः सर्वज्ञरूपनाथाप्रतिपत्तेरनाथो द्रष्टव्यः, यथाऽसौ द्रमको भूमिशयनेन गाढं घृष्टपार्श्वत्रिकः प्रतिपादितस्तथाऽयमपि जीवः सदाऽतिर्परुषपापभूमिविलोठनेन नितरां दलितसमस्ताङ्गोपाङ्गो द्रष्टव्यः, यथाऽसौ द्रमको धूलिधूसरसर्वाङ्गो दर्शितस्तथाऽयमपि जीवो बध्यमानपापपरमाणुधूलिधूसरसमस्तशरीरो विज्ञेयः, यथाऽसौ रोरश्वीरिका-12 जालमालितो गदितस्तथाऽयमपि जीवो महामोहकलालक्षणामिलघुचेलपताकाभिः समन्तात्परिकरितमूर्तिरतीव बीभत्सदर्शनो वर्त्तते, यथाऽसौ द्रमको निन्द्यमानो दीनश्चाख्यातस्तथाऽयमपि जीवोऽवाप्तविवेकैनिन्द्यते सद्भिः भयशोकादिक्लिष्टकर्मपरिपूर्णतया चात्यन्तदीनो विज्ञेयः, यथा चासौ तत्र नगरेऽनवरतं गृहे गृहे भिक्षां पर्यटतीत्युक्तस्तथाऽयमपि जीवः संसारनगरेऽपरापरजन्मलक्षणेषु उच्चावचेषु गेहेषु विषय- D ॥२९॥
१ महान्धकारान्धत्वमपि प्र. २ नरकहेतु. प्र. ३ कलितः प्र. ४ सदा परुष प्र. ५ यथाऽसौ प्र. ६ जीवोऽत्र प्र.
Jain Educa
t
ional
For Private & Personal Use Only
D
ainelibrary.org