________________
उपमितौ
तृ. ३-प्र.
॥३२७ ॥
ततः कुतूहलेनान्तः, प्रविश्य प्रविलोकितम् । तत्र चालब्धपर्यन्त्र, दृष्टं ताभ्यां महाबिलम् ॥ ४६॥ ततो विस्फारिताक्षाभ्यां, कौतुकेन
रसनालो. सविस्मयम् । विचक्षणजडाभ्यां तत् , सुचिरं संनिरीक्षितम् ॥ ४७ ॥ अथ तस्मात्समुद्भूता, रक्तवर्णा मनोहरा । दासचेट्या समं काचि
लताभ्यां ललना चारुविग्रहा ॥ ४८ ॥ तां वीक्ष्य स जडश्चित्ते, परं हर्षमुपागतः । ततश्च चिन्तयत्येवं, विपर्यासितमानसः ॥ ४९॥ अहो
संग: अपूर्विका योषिदहो सुन्दरदर्शना । अहो संस्थानमेतस्या, अहो रूपमहो गुणाः ॥ ५० ॥ किमेषा नाकतो मुग्धा, भ्रष्टा स्यादमरा-15 ङ्गना? । किं वा पातालतो बाला, नागकन्या विनिर्गता? ॥ ५१ ॥ अथवा नहि नहि सुष्टु मया चिन्तितं, यतः-वर्गे वा नागलोके वा, कुतः स्यादियमीदृशी ? । मत्यै च दूरतोऽपास्ता, वार्ताऽपीदृक्षयोषितः॥५२॥ तन्नूनं विधिना मयं, परितुष्टेन कल्पिता । निर्माप्येयं प्रयत्नेन, सुन्दरैः परमाणुभिः ।। ५३ ॥ अन्यच्च-नूनं पुरुषहीनेयं, मदर्थ विहिता वने । यतो मां वीक्षते बाला, लोलदृष्टिर्मुहुर्मुहुः ॥५४॥ गत्वा समीपमेतस्याः, कृत्वा चित्तपरीक्षणम् । ततः करोमि स्वीकारं, किं ममान्येन चेतसा ? ॥ ५५ ॥ इतश्च-विचक्षणश्च तां दृष्ट्वा, ललनां ललिताननाम् । ततश्चेतसि संपन्नो, वितर्कोऽयं महात्मनः ॥ ५६ ॥ एकाकिनी वने योषा, परकीया मनोरमा । न द्रष्टुं युज्यते रागानापि संभाषणोचिता ॥ ५७ ॥ यतः सन्मार्गरक्तानां, व्रतमेतन्महात्मनाम् । परस्त्रियं पुरो दृष्ट्वा, यान्त्यधोमुखदृष्टयः॥ ५८ ॥ अतो ब्रजाम्यतः स्थानात्किं ममापरचिन्तया? । ततो गन्तुं प्रवृत्तोऽसौ, हस्तेनाकृष्य तं जडम् ॥ ५९॥ तेन चाकृष्यमाणोऽसौ, कथचिदलिना जडः । हृतसर्वस्ववन्मोहात्परं दुःखमुपागतः ॥ ६० ॥ यावत्तौ गच्छतः स्तोकं, भूभागं राजपुत्रकौ । तावत्सानुचरी तस्याः, पश्चालमा समागता ॥ ६१ ॥ तया च दूरत एव विहितः पूत्कारः, यदुत-बायध्वं भो नाथास्त्रायध्वं, हा हताऽस्मि मन्दभागिनी, ततो वलितस्तदभिमुखं जडः, तेनाभिहितं-सुन्दरि! मा भैषीः, कथय कुतस्ते भयमिति, तयाऽभिहितं यद्भवन्तौ मम स्वामिनी वि
ककर
३२७॥
JainEducation
For Private
Personel Use Only
Jainelibrary.org