________________
उपमितौ तृ. ३- प्र. ॥ ३२६ ॥
Jain Education
भान्धः परेषां चित्तभेदकः ॥ २६ ॥ अन्यश्चित्ते वदत्यन्यच्चेष्टते क्रिययाऽपरम् । दह्यते परसम्पत्सु परापत्सु प्रमोदते ॥ २७ ॥ गर्वाध्मातः सदा क्रुद्धः सर्वेषां भषणप्रियः । आत्मश्लाघापरो नित्यं रागद्वेषवशानुगः ॥ २८ ॥ किं चात्र बहुनोक्तेन ?, ये ये दोषाः सुदुर्जने । गीयन्ते तेऽखिलास्तत्र, प्रादुर्भूतास्ततो जडे ॥ २९ ॥ एवं च वर्धमानौ तौ स्वगेहे सुखलालितौ । विचक्षणजडौ प्राप्तौ यौवनं परिपाटितः ॥ ३० ॥ इतश्च गुणरत्नानामुत्पत्तिस्थानमुत्तमम् । पुरं निर्मलचित्ताह्वं, विद्यते लोकविश्रुतम् ॥ ३१ ॥ तत्रान्तरङ्गे नगरे, नृपो नाम्ना मलक्षयः । अस्ति सद्गुणरत्नानां, जनकः पालकश्च सः ॥ ३२ ॥ तस्य सुन्दरता नाम, महादेवी मनः प्रिया । विद्यते चारुसर्वाङ्गी, सा तद्रत्नविवर्धिका ॥ ३३ ॥ ताभ्यां च कालपर्यायाज्जाता पद्मदलेक्षणा । बुद्धिर्नाम गुणैराढ्या, कन्यका कुलवर्धनी ॥ ३४ ॥ ततः सा गुणरूपाभ्यामनुरूपं विचक्षणम् । विचिन्त्य प्रहिता बाला, ताभ्यां तस्य स्वयंवरा ।। ३५ ।। परिणीता च सा तेन, महाभूतिप्रमोदतः । विचक्षणेन सत्कन्या, जाता च मनसः प्रिया ॥ ३६ ॥ तया युक्तस्य तस्योच्चैर्भुञ्जानस्य मनःसुखम् । विचक्षणस्य गच्छन्ति दिनानि शुभकर्मणा ॥ ३७ ॥ अथान्यदा क्वचिद्बुद्धेर्वार्तान्वेषणकाम्यया । मलक्षयेण प्रहितो, विमर्शो निजपुत्रकः ॥ ३८ ॥ स च बुद्धौ दृढनेहभावभावितमानसः । तस्या एव समीपस्थः, सद्भगिन्याः स्थितो मुदा ॥ ३९ ॥ सहोदरसमायुक्ता, भर्त्रा च बहुमानिता । ततः सा चित्तनिर्वाणाद्गर्भ गृह्णाति बालिका ॥ ४० ॥ अथ तस्याः शुभे काले, सद्गर्भपरिपाकतः । जातो देदीप्यमानाङ्गः, प्रकर्षो नाम दारकः ॥ ४१ ॥ जातः संवर्धमानोऽसौ प्रकर्षो बुद्धिनन्दनः । विचक्षणगुणैस्तुल्यो, विमर्शस्यातिवल्लभः ॥ ४२ ॥ अथान्यदा स्वकं दृष्टं, काननं सुमनोहरम् । विचक्षणजडाभ्यां भो !, नाम्ना वदनकोटरम् ॥ ४३ ॥ तत्र खादनपानेन, ललमानौ यथेच्छया । तौ द्वावपि स्थितौ कवित्कालं संतुष्टमानसौ ॥ ४४ ॥ तत्र कुन्दसमाः शुभ्रा, रदनाः सन्ति वृक्षकाः । तेषां च वीथिकायुग्मं, ताभ्यां दृष्टं मनोहरम् ॥ ४५ ॥
For Private & Personal Use Only
बुद्ध्युत्पत्तिः
प्रकर्षात्पत्तिः
॥ ३२६ ॥
ainelibrary.org