________________
उपमितौ
च. ४-प्र.
॥ ३२४ ॥
Jain Education In
“भेयं मानुषावस्था, प्रधानं परलोकसाधनं, परिणामकटवो विषयाः, विप्रयोगान्तानि सत्सङ्गतानि, पातभयातुरमविज्ञातपातमायुः, तदेवं "व्यवस्थिते विध्यापनेऽस्य संसारप्रदीपनकस्य यत्नः कर्तव्यः, तस्य च हेतुः सिद्धान्तवासनासारो धर्ममेघः, अतः स्वीकर्तव्यः सिद्धान्तः, “सम्यक् सेवितव्यास्तदभिज्ञा:, भावनीयं मुण्डमालिकोपमानं, त्यक्तव्या खल्वसदपेक्षा, भवितव्यमाज्ञाप्रधानेन, उपादेयं प्रणिधानं, पोष"णीयं सत्साधुसेवया, रक्षणीयं प्रवचनमालिन्यं । एतच्च विधिप्रवृत्तः संपादयति, अतः सर्वत्र विधिना प्रवर्तितव्यं सूत्रानुसारेण, प्रत्य“भिज्ञातव्यमात्मस्वरूपं, प्रवृत्तावपेक्षितव्यानि निमित्तानि, यतितव्यमसंपन्नयोगेषु, लक्षयितव्या विस्रोतसिका, प्रतिविधेयमनागतमस्याः, “भवत्येवं प्रवर्तमानानां सोपक्रमकर्मविलयः, विच्छिद्यते निरुपक्रमकर्मानुबन्ध:, तस्मादत्रैव यतध्वं यूयमिति । एवं च निवेदिते तेन भगवता विचक्षणसूरिणाऽस्याः परिषदो मध्ये केषाञ्चिद्भव्यानामुल्लसितश्चरणपरिणामः अपरेषां संजातो देशविरतिक्षयोपशमः अन्यैः पुनर्विदलितं मिथ्यात्वं अपरेषां प्रतनूभूता रागादयः केषाञ्चित्संपन्नो भद्रकभावः, ततो निपतितास्ते सर्वेऽपि भगवच्चरणयोः, अभिहितमेतै: - 'इच्छामोऽनुशास्तिं कुर्मो यदाज्ञापयन्ति नाथा : ' अत्रान्तरे चिन्तितं तातेन — यदुत प्रश्नयाम्यधुना तदहमात्मविवक्षितं, ततो ललाटतटविन्यस्तकरमुकुलितेनाभिहितमनेन — जनातिशायिरूपाणां, जगदैश्वर्यभागिनाम् । भदन्त ! तत्रभवतां, किं वो वैराग्यकारणम् ? ॥ १ ॥ सूरिणाऽभिहितं भूप !, यद्यत्र तव कौतुकम् । ततस्ते कथयाम्येष, भवनिर्वेदकारणम् ॥ २ ॥ किं तु — आत्मस्तुतिः परनिन्दा, | पूर्वक्रीडितकीर्तनम् । विरुद्धमेतद्राजेन्द्र !, साधूनां त्रयमप्यलम् || ३ || ममात्मचरिते चैतत्कथ्यमाने परिस्फुटम् । त्रयं संपद्यते तेन, न युक्तं तस्य कीर्तनम् ॥ ४ ॥ तातेनाभिहितम् — एवं निगदता नाथ !, वर्धितं कौतुकं त्वया । कर्तव्योऽतः प्रसादो मे, निवेद्यं चरितं निजम् ॥ ५ ॥ ततो विज्ञाय निर्बन्धं, मध्यस्थेनान्तरात्मना । प्रबोधकारणं ज्ञात्वा, सुरिरित्थमवोचत || ६ || यदुत - अनादि
For Private & Personal Use Only
रसनाविपाकदे
शना
॥ ३२४ ॥
ainelibrary.org