SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. ॥ ३२३ ॥ Jain Education I तत्रैकदेशे विश्रम्य, स राजा नरवाहनः । उत्थाय सह सामन्तैर्लीलया हृष्टमानसः ॥ २३ ॥ प्रलोकयितुमारब्धः, कौतुकेन वनश्रियम् । | विस्फारितेन नीलाब्जचारुणा लोलचक्षुषा ॥ २४ ॥ तत्र च - सत्कान्तियुक्तनक्षत्रग्रहसङ्घातवेष्टितम् । प्रकाशितदिगाभोगं, साक्षादिव निशाकरम् ॥ २५ ॥ रक्ताशोकतरुस्तोमपरिवारितविग्रहम् । यथेष्टफलदं साक्षाज्जङ्गमं कल्पपादपम् ॥ २६ ॥ उन्नतं विबुधावासं, कुलशैलविवेष्टितम् । मावदातं सुखदं सुमेरुमिव गत्वरम् ॥ २७ ॥ कुवादिमत्तमातङ्गमदनिर्णाशकारणम् । वृतं सत्करिवृन्देन, निर्मदं गन्धवारणम् ॥ २८ ॥ अथ साधूचिते देशे, रक्ताशोकतलस्थितम् । सत्साधुसङ्घमध्यस्थं कुर्वाणं धर्मदेशनाम् ॥ २९ ॥ शुभार्पितं यथा धन्यो, निधानं रत्नपूरितम् । विचक्षणाख्यमाचार्य, स नरेन्द्रो व्यलोकयत् ॥ ३० ॥ षङ्गिः कुलकम् । अथ तं तादृशं वीक्ष्य, सूरिं निर्मलमानसः । नरवाहनराजेन्द्रः, परं हर्षमुपागतः ॥ ३१ ॥ ततश्चित्ते कृतं तेन, नूनं नास्ति जगत्रये । ईदृशं नरमाणिक्यं, यादृशोऽयं तपोधनः ॥ ३२ ॥ निर्जितामरसौन्दर्या, निवेदयति वीक्षिता । अमुष्याकृतिरेवोच्चैर्गुणसम्भारगौरवम् ॥ ३३ ॥ तदीदृशस्य किं नाम भवेद्वैराग्यकारणम् ? । येन यौवनसंस्थेन, खण्डितो मकरध्वजः ॥ ३४ ॥ अथवा गत्वा प्रणम्य पादाब्जं स्वयमेव महात्मनः । ततः पृच्छामि पूतात्मा, भवनिर्वेदकारणम् || ३५ ॥ एवं विचिन्त्य गत्वाऽसौ नत्वा सूरेः क्रमद्वयम् । दत्ताशीस्तेन हृष्टात्मा, निषण्णः शुद्धभूतले ॥ ३६ ॥ ततस्तदनुमार्गेण, राजवृन्दं तथा पुरम् । उपविष्टं यथास्थानं, नत्वाऽऽचार्याङ्घ्रिपङ्कजम् ॥ ३७ ॥ मया तु भद्रे ! पापेन, शैलराजवशात्मना । न नतं तादृशस्यापि तदा सूरेः क्रमद्वयम् ॥ ३८ ॥ पाषाणभृतमुक्तोलीसन्निभो लोकपूरणः । केवलं स्तब्धसर्वाङ्गो, निषण्णोऽहं भुवस्तले ॥ ३९ ॥ अथ गम्भीरघोषेण, मेघवन्नीरपूरितः । धर्ममाख्यातुमारब्धः, स आचार्यो विचक्षणः ॥ ४० ॥ अभिहितं च तेन भगवता ——यदुत भो भो भव्याः ! “प्रदीप्तभवनोदरकल्पोऽयं संसारविस्तारो, निवासः शारीरादिदुःखानां, न युक्त इह विदुषः प्रमादः, अतिदुर्ल For Private & Personal Use Only विचक्षण सूर्यागमनं ॥ ३२३ ॥ ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy